सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 217, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 217

१७६ | कथासरित्सागर
अङ्के घोषवती तस्य कण्ठे गीतद्युतिस्तथा।
पुरो वासवदत्ता च तस्यै चेतोविनोदिनी ॥३२॥
सा च वासवदत्तास्य परिचर्यापराऽभवत्।
लक्ष्मीरिव तदेकाग्रा वक्षस्याप्यनपायिनी ॥३३॥
अत्रान्तरे च कौशाम्ब्यां वत्सराजानुगे जने।
आवृत्तं तं प्रभुं बुद्ध्वा बद्धं राष्ट्रं प्रचुक्षुभे ॥३४॥
उज्जयिन्यामवस्कन्दं¹ दातुमैच्छंस्तमन्ततः।
वत्सेश्वरानुरागेण क्रुद्धा प्रकृतयस्तथा ॥३५॥
नैव चण्डमहासेनो वत्साध्यो महान्हि सः।
न चैव वत्सराजस्य शरीरं कुशलं भवेत् ॥३६॥
तस्मान्न युक्तोऽवस्कन्दो बुद्धिसाध्यमिदं पुनः।
इति प्रकृतयः क्षोभान्न्यवार्यन्त रुमण्वता ॥३७॥
ततोऽनुरक्तमालोक्य राष्ट्रमव्यभिचारि तत्।
रुमण्वदादीनाहूय स्म धीरो यौगन्धरायणः ॥३८॥
इहैव सर्वैर्यूष्माभिः स्थातव्यं सर्वतोद्यतैः।
रक्षणीयमिदं राष्ट्रं कालो नायमथ विक्रमः ॥३९॥
वसन्तकद्वितीयश्च गत्वाहं प्रज्ञया स्वया।
वत्सेशं मोचयित्वा तामानेष्यामि न संशयः ॥४०॥
जलाहतो विषादेन विद्युतामिव द्युतिः।
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥४१॥
प्राकारभञ्जनान् योगांस्तथा निगडभञ्जनान्।
अदर्शनप्रयोगांश्च जानन्नहमृप्ययोगिनः ॥४२॥
इत्युक्त्वा प्रकृतीः कृत्वा हस्तन्यस्ता रुमण्वतः।
यौगन्धरायणः प्रायात्कौशाम्ब्याः सवसन्तकः ॥४३॥
प्रविवेश च तेनैव सह विन्ध्यमहाटवीम्।
स्वप्रज्ञामिव सत्ताढ्यां स्वनीतिमिव दुर्गमाम् ॥४४॥
तत्र वत्सेशमित्रस्य विन्ध्यप्राग्भारवासिनः।
गृहं पुलिन्दकाख्यस्य पुलिन्दाधिपतेरगात् ॥४५॥
तं सज्जं स्थापयित्वा च यथा वचनाभिप्सितं।
वत्सराजस्य रक्षार्थं भूरिसैन्यसमन्वितम् ॥४६॥
१ आक्रमणमिति भावः।