सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 185, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 185

१४४ कथासरित्सागरः
सोऽपि तस्यास्तदङ्गुल्यां निक्षिपारङ्गुलीयकम्।
ततो जजाप विद्यां च तेन प्रत्युज्जिजीव सा ॥९७॥
अथ सवजने दृष्टे धीदत्तस्तुतितत्पर।
तत्रैव ज्ञातवृत्तान्तो राजा बिम्बचिराययौ ॥९८॥
सेनासौ सखिभि सार्धमगृहीताङ्गुलीयकः ।
प्रत्याजगाम धीदत्तो भवनं बाहुशालिनः ॥९९॥
तत्र तस्मै सुवर्णादि यत्प्रीतः प्राहिणोन्नृपः।
तद्बाहुशालिनः पित्रे समग्रं स समर्पयत् ॥१०० ॥
अथ तां चिन्तयन्कान्तां स तथा पर्यतप्यत।
यथा किङ्कर्यतामूढा वयस्यास्तस्य जज्ञिरे ॥१०१॥
ततो भावनिका नाम राजपुत्र्या प्रिया सखी।
अङ्गुलीयार्पणव्याजात्तस्यान्तिकमुपाययौ ॥१०२॥
उवाच चाम मस्सख्यास्तस्याः सुभग! साम्प्रतम्।
त्वं वा प्राणप्रदो भर्त्ता मृत्युर्वाप्येष निश्चयः ॥१०३॥
इत्युक्ते भावनिकया धीदत्तः स च सापि च।
बाहुशाली च तेऽन्ये च मन्त्रं सम्भूय चक्रिरे ॥१०४॥
हरामो निभृतं युक्त्या राजपुत्रीमिमां वयम्।
निवासहेतोर्गूप्तं च गच्छामो मधुरांमित ॥१०५॥
इति सम्मन्त्रित सम्यक्कार्यसिद्धय च संविदि।
अन्योन्यं स्थापितायां सा ययौ भावनिका ततः ॥१०६॥
अन्यद्युर्बाहुशाला च वयस्यमितयाचत।
वणिज्याव्यपदशन जगाम मधुरां प्रति ॥१०७॥
स गच्छन्स्थापयामाम वाहनानि पदे पदे।
राजपुत्र्यभिमारार्थं गूढानि चतुराणि च ॥१०८॥
धीदत्तोऽपि ततः काञ्चिद्बहुहिम्ना सहितां स्त्रियम्।
माम राजमुतावास पाययित्वा मधु न्यधात् ॥१०९॥
ततोऽत्र दीपोद्देशेन दत्वाग्नि वासवेश्मनि।
प्रच्छन्नं भावनिकया निन्ये राजसुता बहिः ॥११०॥
तदाण तां च सम्प्राप्य धीदत्तः स बहिःस्थितः ।
प्राप्तप्रस्थितस्य निकटं प्राहिणोद् वाहनासिनः ॥१११॥
इतो मित्रद्वयं यास्या पश्चाद्भावनिका तया।