कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 175, कुल 876 में से
संदर्भ में पढ़ें१६६ कथासरित्सागरे
धीवतोऽपि स सत्रैव निपसाद तदन्तिके।
अथाकस्मात्प्रववृते तया साध्व्या प्ररोदितम्॥३६॥
निपेतु स्तनयोस्तस्याः सम्प्राप्ता बाष्पबिन्दवः।
श्रीदत्तस्य च तत्काल कारुण्य हृदय गतम्॥३७॥
तत स चैनां पप्रच्छ का त्व दुःख च किं तव।
वद सुन्दरि शक्तोऽह तन्निवारयितु यत ॥३८॥
तत कथञ्चित्सावादीद् वय दैत्यपतेर्बले ।
पौत्र्यो बभूविम तासां ज्येष्ठा विद्युत्प्रभत्यहम्॥३९॥
स नः पितामहो नीतो विष्णुना दीर्घबन्धनम्।
पिता च बाहुयुद्धेन हतस्तनैव शौरिणा॥४०॥
तं हृत्वा तन च निजात्पुरान्निर्वासिता वयम्।
प्रवेशरोधकृत्तत्र सिंहश्च स्थापितोऽन्तर॥४१॥
आवृत तत्पद तन दुःखन हृदय च नः।
स च यक्षः कुबेरस्य शापात् सिंहत्वमागत ॥४२॥
मर्त्येश्चाभिभवस्तस्य शापान्त कथित पुरा।
पुरप्रवेशोपायार्थं विज्ञप्तो विष्णुरार्ययात्॥४३॥
अत स द्वयुरस्माकं केशरी जीयतां त्वया।
तदर्थमेव चानीतो मया वीर! भवानिह॥४४॥
मृगाङ्ककास्य खड्ग च जितात्तस्मादवाप्स्यसि।
पृथिवीं यत्प्रभावेण जित्वा राजा भविष्यसि॥४५॥
तच्छ्रुत्वा स सधैर्येण धीदत्तोऽसीत्तदहिन।
अन्यद्युर्वर्त्समन्यास्ताः कृत्वाग्रे तत्पुर ययौ॥४६॥
जिगाय बाहुयुद्धेन तत्र च सिंहमुद्धतम्।
सोऽपि शापविमुक्त सन्बभूव पुरुषाकृतिः॥४७॥
दत्त्वा चास्मै स खड्गं स्वं तुष्टः शापान्तकारिण।
सहासुराङ्गनादुःखमारेणावक्षन ययौ॥४८॥
सोऽथ सानुजया सार्धं श्रीदत्तो दैत्यकन्यया।
बहिर्गतमिवामन्द तद्विवेश पुरोत्तमम्॥४९॥
मङ्गुलीय द्विपद्मं च सास्मै दैत्यसुता ददौ।
तत सोऽत्र स्थितस्तस्यां साभिलाषोऽभवद्युवा॥५०॥