कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 133, कुल 876 में से
संदर्भ में पढ़ें९६ कथासरित्सागर
तच्छ्रुत्वा मम राज्ञश्च विषादप्रमदौ द्वयोः ।
अभूतां मेघमालोक्य हंसचातकयोरिव ॥१६२॥
आगत्य शर्ववर्मापि कुमारवरसिद्धिमान् ।
चिन्तितोपस्थिता राज्ञे सर्वा विद्याः प्रदत्तवान् ॥१६३॥
प्रादुरासञ्च तास्तस्य सातवाहनभूपतेः ।
तत्क्षणं किं न कुर्याद्धि प्रसादः पारमेश्वरः ॥१६४॥
अथ तमखिलविद्यालाभमाकर्ण्य राज्ञः
प्रमुदितवति राष्ट्रे तत्रकोऽप्युत्सवोऽभूत् ।
अपि पवनविधूतास्तत्क्षणोल्लास्यमानाः
प्रतिवसति पताका बद्धनृत्ता इवासन् ॥१६५॥
राजार्हैरत्ननिचयैरथ शर्ववर्मा
सम्भाषितो गुरुरिति प्रणतेन राज्ञा ।
स्वामीकृतश्च विषये भरुकच्छनाम्नि
कूलोपकण्ठविनिवेशिनि नर्मदायाः ॥१६६॥
योऽभूच्चारमुखेन षण्मुखवरप्राप्तिं समाकर्णय-
त्सन्तुष्ट्यात्मसमं धिया नरपतिस्तं सिंहगुप्तं व्यधात् ।
राज्ञीं तामपि विष्णुशक्तितनयां विद्यागमे कारणं
देवीनामुपरि प्रसङ्गकृतवान्प्रीत्याभिषिच्य स्वयम् ॥१६७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके
पञ्चमस्तरङ्गः ।
सप्तमस्तरङ्गः
ततो गृहीतमौनोऽहं राजास्तिकमुपागमम् ।
तत्र च श्लोकमपठद्विजः कश्चित्स्वयं कृतम् ॥१॥
तं चाचष्ट स्वयं राजा सम्यक्संस्कृतया गिरा ।
तत्रालोक्य च तत्तस्या जनः प्रमुदितोऽभवत् ॥२॥
ततः स शर्ववर्माणं राजा सविनयोऽब्रवीत् ।
स्वयं कथय देवेन कथं तेऽनुग्रहः कृतः ॥३॥
तच्छ्रुत्वानुग्रहं राज्ञे शर्ववर्म्ान्यसापयत् ।
ततो राजभिराहारो मौनस्योऽभू तदा सह ॥४॥