सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 119, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 119

८४ कथासरित्सागर
स च मामब्रवीत् स्वामिन्वृद्धेभ्यः श्रूयते यथा।
पूर्वं मौनी निराहारो द्विजः कश्चित्समाययौ ॥७४॥
स दिव्यमिदमुद्यानं सदेवभवनं व्यधात्।
ततोऽत्र ब्राह्मणाः सर्वे मिलन्ति स्म सकौतुकाः ॥७५॥
निवासास स पृष्टः स्वं वृत्तान्तमवदद्विजः।
अस्तीह मरुकच्छाख्यो¹ विषयो नर्मदातटे ॥७६॥
तस्मिन्नहं समुत्पन्नो विप्रस्तस्य च मे पुरा।
न भिक्षामप्यदात् कश्चिद्दरिद्रस्यालसस्य च ॥७७॥
अथ खेदाद् गृहं त्यक्त्वा विरक्तो जीवितं प्रति।
भ्रान्त्वा तीर्थान्यहं द्रष्टुमगच्छं विन्ध्यवासिनीम् ॥७८॥
दृष्ट्वा ततश्च तां देवीमिति सञ्चिन्तितं मया।
लोकः पशूपहारेण प्रीणाति वरदामिमाम् ॥७९॥
अहं त्वात्मानमेवेह हन्मि मूर्खमिमं पशुम्।
निश्चित्येति शिरश्छेत्तुं मया शस्त्रमगृह्यत ॥८०॥
तत्क्षणं सा प्रसन्ना मां देवी स्वयमभाषत।
पुत्र सिद्धोऽसि मात्मानं वधीस्तिष्ठ ममान्तिके ॥८१॥
इति देवीवरं लब्ध्वा सम्प्राप्ता दिव्यता मया।
सद्यःप्रभृति नष्टा मे बुभुक्षा च तृषा सह ॥८२॥
कदाचिदथ देवी मां ततश्च स्वयमादिशत्।
गत्वा पुत्र प्रतिष्ठाने रचयोद्यानमुत्तमम् ॥८३॥
इत्युक्त्वा सद्य मे बीजं दिव्यं प्रादात्ततो मया।
इहागत्य कृतं कान्तमुद्यानं तत्प्रभावतः ॥८४॥
पाल्यमेतच्च युष्माभिरित्युक्त्वा स तिरोदधे।
इति निर्मितमुद्यानमिदं देव्या पुरा प्रभो ॥८५॥
उद्यानपालकादित्थमवदेशं देव्यनुग्रहम्।
आकर्ण्य विस्मयाविष्टो गृहाय गतवानहम् ॥८६॥
एवमुक्ते गुणाढ्येन काणभूतिरभाषत।
सातवाहन इत्यस्य कस्मान्नामाभवत् प्रभो ॥८७॥
१ मरुकच्छः—साम्प्रतं गुर्जरदेशे 'भड़ोच' इति प्रसिद्धः ।