सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 93, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 93

८६ ॥ काशिका ॥ २ । १ ॥
णास्य । यदा तु विद्याया तद्गतामभेदविवक्षा तदा सामानाधिकरण्यं भवति ।
द्विमुनि व्याकरणं, त्रिमुनि व्याकरणमिति । जन्मना । एकविंशति भारद्वाजम् ॥
नदीभिश्च ॥ २० ॥
संख्येत्यनुवर्तते । नदीवचनैः शब्दैः सह संख्या समस्यते, अव्ययीभा-
वश्च समासो भवति समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् । पञ्च-
नदम् । सप्तगोदावरम् ॥
अन्यपदार्थे च संज्ञायाम् ॥ २१ ॥
संख्येति निवृत्तं, नदीग्रहणमनुवर्त्तते । नदीभिः सह सुबन्तमन्यपदार्थे
वर्त्तमानं संज्ञायां विषये समस्यते, अव्ययीभावश्च समासो भवति । विभाषा-
धिकारेपि नित्यसमास एवायम् । नहि वाक्येन संज्ञा गम्यते । उन्मत्तगङ्गं नाम
देशः । लोहितगङ्गम् । कृष्ण गङ्गम् । शनैर्गङ्गम् । अन्यपदार्थइति किम् ।
कृष्णवेणा संज्ञायामिति किम् । शीघ्रगङ्गो देशः ॥
तत्पुरुषः ॥ २२ ॥
तत्पुरुष इति संज्ञा ऽधिक्रियते प्राग्बहुव्रीहे, यनितऊर्द्ध्वं नुक्रमिष्याम-
स्तत्पुरुषसंज्ञास्ते वेदितव्याः । वक्ष्यति द्वितीयाश्रितातीतपतितेति । कष्टश्रितः ।
पूर्वाचार्यसंज्ञा चेयं महती तदङ्गीकरणमुपाधेरपि तदीयस्य परिग्रहार्थम् । उत्तर-
पदार्थप्रधानस्तत्पुरुष इति । तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलमित्येवमादयः ॥
द्विगुश्च ॥ २३ ॥
द्विगुश्च समासस्तत्पुरुषसंज्ञो भवति । द्विगोस्तत्पुरुषत्वे समासान्ताः
प्रयोजनम् । पञ्चराजी । दशराजी । द्व्यहः । पञ्चगवम् । दशगवम् ॥
द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ॥ २४ ॥
सुप् सुपेति वर्त्तते, तस्य विशेषणमेतद् द्वितीया । द्वितीयान्तं सुबन्तं
श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । कष्टं श्रितः, कष्ट-
श्रितः । नरकाश्रितः । अतीत । कान्तारमतीतः, कान्तारातीतः । पतित ।
नरकं पतितः, नरकपतितः । गत । ग्रामं गतः, ग्रामगतः । अत्यस्त । तरङ्गा-
नत्यस्तः, तरङ्गात्यस्तः । तुहिनात्यस्तः । प्राप्त । सुखं प्राप्तः सुखप्राप्तः ।
आपन्न । सुखमापन्नः, सुखापन्नः । दुःखापन्नः ॥ श्रितादिषु गमिगाम्यादीनामु-
पसंख्यानम् ॥ * ॥ ग्रामं गमी, ग्रामगमी । ग्रामं गामी, ग्रामगामी । ओदनं
बुभुक्षुः, ओदनबुभुक्षुः ॥
स्वयं क्तेन ॥ २५ ॥
स्वयमेतदव्ययमात्मनेत्यस्यार्थे वर्त्तते तस्य द्वितीयाया संबन्धोनुपपन्न इति

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 93, कुल 828 में से · SarvaKosh