सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 90, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 90

हिमानि । निर्हिमं, निःशीतं, वर्तते । असंप्रति, उपभोगस्य वर्तमानकालप्र-
तिषेधः । अतितैसूकम् * । तैसूकमाच्छादनं, तस्यायमुपभोगकालो न भवती-
त्यर्थः । शब्दप्रादुर्भावः प्रकाशता शब्दस्य । इतिपाणिनि । तत्पाणिनि । पाणि-
निशब्दो लोके प्रकाशतइत्यर्थः । पश्चात् । अनुरथं पादातम् । रथानां पश्चात् ।
यथार्थे यदव्ययं वर्तते तत्समस्यते । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं
चेति यथार्थाः । योग्यतायाम् । अनुरूपम् । रूपयोग्यं भवतीत्यर्थः । वीप्सायाम् ।
अर्थमर्थं प्रति । प्रत्यर्थम् । पदार्थानतिवृत्तौ । यथाशक्ति । आनुपूर्व्यमनुक्रमः ।
अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्त्वित्यर्थः । यौग-
पद्यमेककालता । सचक्रं धेहि । युगपच्चक्रं धेहीत्यर्थः । सादृश्यं तुल्यता ।
किमर्थमिदमुच्यते, यथार्थइत्येव सिद्धम् । गुणभूतेऽपि सादृश्ये यथा स्यात् ।
सदृशः सख्या ससखि । संपत्तिरनुरूप आत्मभावः समृद्धेरन्यः । सब्रह्म बाध-
वायाम् । सत्रक्षं शालङ्कायनानाम् । साकल्यमशेषता । सतृणमभ्यवहरति ।
सबुसम् । न किं चिदभ्यवहार्यं परित्यजतीत्ययमर्थोऽधिकार्थवचनेन प्रतिपा-
द्यते । अन्तवचने । अन्तइति परिग्रहापेक्षया समाप्तिरुच्यते । साग्न्यधीते ।
सेष्टिपशुबन्धम् । पशुबन्धान्तमधीतइत्यर्थः । इयं समाप्तिरसकलेऽप्यध्ययने भव-
तीति साकल्यात्पृथगुच्यते ॥
यथा ऽसादृश्ये ॥ ७ ॥
यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, ऽव्ययीभावश्च
समासो भवति । यथावृद्धं ब्राह्मणानामन्त्रयस्व । येये वृद्धाः । यथावृद्धुक्षः ।
यथाध्यापकम् । असादृश्यइति किम् । यथा देवदत्तस्तथा यज्ञदत्तः । यथार्थे
यदव्ययमिति पूर्वेणैव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम् ॥
यावदवधारणे ॥ ८ ॥
यावदित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभा-
वश्च समासो भवति । अवधारणमियत्तापरिच्छेदः । यावदमत्रं ब्राह्मणानाम-
न्त्रयस्व । यावन्त्यमत्राणि संभवन्ति पञ्च बह्वा तावत आमन्त्रयस्व । अवधा-
रणइति किम् । यावद्भुक्तं तावदुक्तम् । नावधारयामि कियन्मया भुक्तमिति † ॥
सुप्प्रतिना मात्रार्थे ॥ ९ ॥
मात्रा बिन्दुः स्तोकमल्पमिति पर्यायाः । मात्रार्थे वर्तमानेन प्रतिना सह
सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति । शाकस्य लेशः शाकप्रति ।
* तैक्षकम् । इति पाठान्तरम् ।
† कियद्दत्तं त्वया कियद्भुक्तं मयेति वा ।