काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 815, कुल 828 में से
संदर्भ में पढ़ें८१४ ॥ काशिका ॥ ८ ॥ ४ ॥
हन्तेरत्पूर्वस्य ॥ २२ ॥
अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकार आदेशो
भवति । प्रहण्यते । परिहण्यते । प्रहणनम् । परिहणनम् । अत्पूर्वस्येति किम् ।
प्रघ्नन्ति । परिघ्नन्ति । तपरकरणं किम् । विद्धि प्राघानि । पर्यघानि ॥
वमोर्वा ॥ २३ ॥
हन्तेरिति वर्तते । वकारमकारयोः परतो हन्तिनकारस्योपसर्गस्थान्नि-
मित्तादुत्तरस्य वा णकारादेशो भवति । प्रहण्वः । परिहण्वः । प्रहन्वः । परि-
हन्वः । प्रहण्मः । परिहण्मः । प्रहन्मः । परिहन्मः * ॥
अन्तरदेशे ॥ २४ ॥
अन्तःशब्दादुत्तरस्य हन्तिनकारस्यात्पूर्वस्य णकारादेशो भवति चादे-
शाभिधाने । अन्तर्हण्यते । अन्तर्हणनं वर्तते । आदेशइति किम् । अन्तर्हनने ।
देशः अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरकरणं किम् । अन्तर्घानि ॥
अयनं च ॥ २५ ॥
अन्तरदेशइति वर्तते । अयननकारस्य चान्तः शब्दादुत्तरस्य णकारादेशो
भवति अदेशाभिधाने । अन्तरयणं वर्तते । अन्तरयणं शोभनम् । अदेशइ-
त्येव । अन्तरयनो देशः ॥
छन्दस्यदवग्रहात् ॥ २६ ॥
पूर्वपदादिति वर्तते । ऋकारान्तादवग्रहात्पूर्वपदादुत्तरस्य णकारादेशो
भवति छन्दसि विषये । नृमणाः । पितॄयाणम् । अत्र हि नृमणा पितॄयाण-
मिति ऋकारोऽवगृह्यते । अवग्रहग्रहणं किमर्थमुच्यते । यावता संहिताधिकार
आध्यायपरिसमाप्तेरित्युक्तम् । विषयोपलक्षणार्थमवग्रहग्रहणं,प्रगृह्यमाणाद्यथा
स्यादनवगृह्यमाणान्मा भूत् । अपदान्ते चावग्रहो नास्ति ॥
नश्च धातुस्थोरुषुभ्यः ॥ २७ ॥
नस् इत्येतस्य नकारस्य णकारादेशो भवति धातुस्थान्निमित्तादुत्तरस्यो-
रुशब्दात्पुशब्दाच्च छन्दसि विषये । धातुस्थात्तावत् । अग्ने रक्षाणः । शिक्षाणो
अस्मिन् । उरुशब्दात् । उरूणस्कृधि । षुशब्दात् । अभी षु णः सखीनाम् ।
ऊर्ध्व ऊ षु ण ऊतये । अस्मदादेशोयं नस्शब्दो बहुवचनस्य वस्नसौविति ॥
उपसर्गाद्बहुलम् ॥ २८ ॥
उपसर्गस्थान्निमित्तादुत्तरस्य नसो नकारस्य णकारादेशो भवति । प्रणः
- पूर्वेण नित्ये प्राप्ते विकल्प इत्यधिकमन्त्र ।