काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 811, कुल 828 में से
संदर्भ में पढ़ें८१० ॥ काशिका ॥ ८ । ४ ॥
विषये । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । शारिकावणम् । कोट-
रावणम् । अग्रेवणम् । सिद्धे सत्यारम्भो नियमार्थः । एतेभ्य एव परस्य वनन-
कारस्य णकारादेशो भवति, नान्येभ्य इति । कुबेरवनम् । शतधारवनम् ।
असिपत्रवनम् ॥
प्रनिरन्तः शरेत्तुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यो-
संज्ञायामपि ॥ ५ ॥
प्र निर् अन्तर् शर इत्तु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्य उत्त-
रस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति । प्र । प्रवणे यष्ट-
व्यम् । निर् । निर्वणे प्रतिधीयते । अन्तर् । अन्तर्वणे । शर । शरवणम् । इत्तु ।
इत्तुवणम् । प्लक्ष । प्लक्षवणम् । आम्र । आम्रवणम् । कार्ष्य । कार्ष्यवणम् ।
खदिर । खदिरवणम् । पीयूक्षा । पीयूक्षावणम् ॥
विभाषौषधिवनस्पतिभ्यः ॥ ६ ॥
वनमित्येव । ओषधिवाचि यत्पूर्वपदं वनस्पतिवाचि च तत्स्थानिमि-
त्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा । ओषधिवाचिभ्यस्ता-
वत् । दूर्वावणम् । दूर्वावनम् । मूर्वावणम् । मूर्वावनम् । वनस्पतिभ्यः । शिरी-
षवणम् । शिरीषवनम् । बदरीवणम् । बदरीवनम् ॥ द्वयक्षरत्र्यक्षरेभ्य इति वक्त-
व्यम् ॥ * ॥ इह मा भूत् । देवदारुवनम् । भद्रदारुवनम् ॥ इरिकादिभ्यः
प्रतिषेधो वक्तव्यः ॥ * ॥ इरिकावनम् । तिमिरकावनम् । सत्यपि भेदे वृक्षव-
नस्पत्योरिहाभेदेन ग्रहणं द्रष्टव्यम् ।
फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः ।
ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः ॥
अह्नोऽदन्तात् ॥ ७ ॥
अदन्तं यत्पूर्वपदं तत्स्थानिमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो
भवति । पूर्वाह्णः । अपराह्रः । अदन्तादिति किम् । निरह्नः । दुरह्नः । अह्नोऽह्न
एतेभ्य इत्याह्लादेशः । अह्न इत्यकारान्तग्रहणाद् दीर्घाह्नी शरदित्यत्र न भवति ॥
वाहनमाहितात् ॥ ८ ॥
आहितवाचि यत्पूर्वपदं तत्स्थानिमित्तादुत्तरस्य वाहननकारस्य णकार
आदेशो भवति । इत्तुवाहणम् । शरवाहणम् । दर्भवाहणम् । वाहने यद्
आरोपितमुह्यते तदाहितमुच्यते । आहितादिति किम् । दात्तिवाहनम् । दात्ति-
स्वामिकं वाहनमित्यर्थः ॥