सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 798, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 798

॥ काशिका ॥ ८ ॥ ३ ॥ ७९७
आदेशप्रत्यययोः ॥ ५९ ॥
मूर्धन्य इति वर्त्तते स इति च । आदेशप्रत्यययोरिति षष्ठी भेदेन संब-
ध्यते । आदेशो यः सकारः प्रत्ययस्य च यः सकारः इण्कोरुत्तरस्तस्य मूर्धन्यो
भवति आदेशः । आदेशस्य तावत् । सिषेव । सुष्वप । प्रत्ययस्य । अग्निषु ।
वायुषु । कर्तृषु । हर्तृषु । इन्द्रो मा वक्ष्यत् । स देवान्यक्षदिति व्यपदेशिवद्भा-
वात्प्रत्ययस्येति षत्वं भवति । यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकव-
चनदकारलोपः लेटोडाइटवित्युट् सिब्बहुलं लेटीति सिप्, ततः सिहुं यक्षत्,
वक्षत्, इति ॥
शासिवसिघसीनां च ॥ ६० ॥
शासि वसि घसि इत्येतेषां च इण्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति ।
आन्वशिषत् । आन्वशिषताम् । आन्वशिषन् । शिष्टः । शिष्टवान् । वसि ।
उषितः । उषितवान् । उषित्वा । घसि । जक्षतुः । जक्षुः । घसिभसोरित्युप-
धालोपः । अक्षन्नमीमदन्त पितरः । अनादेशार्थं वचनम् । घसिर्यद्यप्यादेशः
सकारस्त्वादेशो न भवति । इण्कोरित्येव । शास्ति । वसति । जघास ॥
स्तौतिण्योरेव षण्यभ्यासात् ॥ ६१ ॥
स्तौतेर्ण्यन्तानां च षण्भूते सनि परतः अभ्यासादिण उत्तरस्य आदेश-
सकारस्य मूर्द्धन्यादेशो भवति । तुष्टूषति । ण्यन्तानाम् । सिषेवयिषति । सिष्व-
ञ्जयिषति । सुष्वापयिषति । सिद्धे सत्यारम्भो नियमार्थः स्तौतिण्योरेव षण्य-
भ्यासाद्यथा स्यादन्यस्य मा भूत् । सिसिक्षति । सुसूपति । एवकारकरणमिह-
तोवधारणार्थम् । स्तौतिण्योः षण्येवेति हि विज्ञायमाने तुष्टावेत्यत्र न
स्यात् । इह च स्यादेव । सिसिक्तीति । षणीति किम् । अन्यत्र नियमो मा
भूत् । सिषेव । को विनतेनुरोधः । अविनते नियमो मा भूत् । सुषुप्स