काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 792, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 792
॥ काशिका ॥ ८ ॥ ३ ॥ ७९१
मय उञो वो वा ॥ ३३ ॥
मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः । शमुअस्तु
वेदिः । शम्वस्तु वेदिः । तदु अस्य परेतः । तद्वस्य परेतः । किमु आवपनम् ।
किम्वावपनम् । प्रगृह्यत्वादुञः प्रकृतिभावे प्राप्ते वकारो विधीयते । तस्यासि-
द्धत्वाद्धलीति मो ऽनुस्वारो न भवति ॥
विसर्जनीयस्य सः ॥ ३४ ॥
खरीत्यनुवर्त्तते । विसर्जनीयस्य सकार आदेशो भवति खरि परतः ।
वृक्षश्छादयति । प्लक्षश्छादयति । वृक्षष्ठकारः । प्लक्षष्ठकारः । वृक्षस्थकारः । प्लक्ष-
स्थकारः । वृक्षश्चिनोति । प्लक्षश्चिनोति । वृक्षष्टीकते । प्लक्षष्टीकते । वृक्षस्तरति ।
प्लक्षस्तरति ॥
शर्परे विसर्जनीयः ॥ ३५ ॥
शर्परे खरि परतो विसर्जनीयस्य वि