सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 790, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 790

॥ काशिका ॥ ८ ॥ ३ ॥ ७८९
उ एकविंशतिः । स उ एकाभिः । पद इति किम् । तन्व उते, तन्वयुतम् ।
वेञः संप्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुमिति । अथ
उञित्येवंरूपो निपातः प्रतिपदोक्तो ऽस्ति तदा लाक्षणिकत्वाद्वेञादेशस्य ग्रह-
णमिह नास्ति उत्तरार्थं पदग्रहणं क्रियते ॥
हलि सर्वेषाम् ॥ २२ ॥
हलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति
सर्वेषामाचार्याणां मतेन । भो हसति । भगो हसति । अघो हसति । भो
याति । भगो याति । अघो याति । वृक्षा हसन्ति । सर्वेषांग्रहणं शाकटाय-
नस्यापि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूदिति ॥
मो ऽनुस्वारः ॥ २३ ॥
मकारस्य पदान्तस्यानुस्वार आदेशो भवति हलि परतः । कुण्डं हसति ।
वनं हसति । कुण्डं याति । हलीत्येव । त्वमत्र । किमत्र । पदान्तस्येत्येव ।
गम्यते । रम्यते ॥
नश्चापदान्तस्य झलि ॥ २४ ॥
नाकारस्य मकारस्य चापदान्तस्यानुस्वारादेशो भवति झलि परतः ।
पयांसि । यशांसि । सर्पींषि । धनूंषि । मकारस्य । आक्रंस्यते । आविभ्रंस्यते ।
अधिजिगांसते । अपदान्तस्येति किम् । राजन्भुङ्क्ष्व । झलीति किम् । रम्यते ।
गम्यते ॥
मो राजि समः क्वौ ॥ २५ ॥
समो मकारस्य मकार आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः ।
सम्राट् । साम्राज्यम् । मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम् । राजेति
किम् । संयत् । सम इति किम् । किं राट् । क्वाविति किम् । संराजिता । संरा-
जितुम् । संराजितव्यम् ॥
हे मपरे वा ॥ २६ ॥
हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति । किं
ह्मलयति । किम् ह्मलयति । कथं ह्मलयति । कथम् ह्मलयति ॥ यवलपरे
यवला वा ॥ * ॥ यवलपरे हकारे मकारस्य यवला यथासंख्यं वा भवन्तीति
वक्तव्यम् । कियँ ह्यः । किं ह्यः । किवँ ह्वलयति । किं ह्वलयति । किल्ँ ह्लाद-
यति । किं ह्लादयति ॥
नपरे नः ॥ २७ ॥