काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 786, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ८ ॥ ३ ॥ ७८५
दृश्यन्ते । भो ब्राह्मणि । संहिताधिकार उत्तरत्रोपयुज्यते यत्र भिन्नपदस्था
निमित्तनिमित्तिनौ । नश्छव्यप्रशानिति * ॥
अत्रानुनासिकः पूर्वस्य तु वा ॥ २ ॥
अधिकारोऽयम् । इत उत्तरं यस्य स्थाने रुर्विधीयते ततः पूर्वस्य तु
वर्णस्य वाऽनुनासिको भवतीत्येतदधिकृतं वेदितव्यम् । यदिद ऊर्ध्वमनुक्रमि-
ष्यामस्तत्र । वक्ष्यति । समः सुटि । सँस्कर्त्ता । सँस्कर्त्तुम् । सँस्कर्त्तव्यम् । अत्र-
ग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम् । अधिकारपरिभाषापरिशेषे हि सति
ढो ढे लोप त्यत्रापि पूर्वस्यानुनासिक आशङ्क्येत ॥
आतोऽटि नित्यम् ॥ ३ ॥
अटि परतो रोः पूर्वस्याकारस्य स्थाने नित्यमनुनासिकादेशो भवति ।
दीर्घोऽटि समानपादइति रुत्वं वक्ष्यति । ततः पूर्वस्यातो ऽनुनासिकविकल्पे
प्राप्ते । नित्यार्थं वचनम् । महां असि । महां इन्द्रो य ओजसा । देवां
अच्छादीव्यत् । के चिदनुस्वारमधीयते । स च्छान्दसो व्यत्ययो द्रष्टव्यः ।
आत इति किम् । ये वा वनस्पतीँरनु । अटीति किम् । भवांश्चरति भवांश्छा-
दयति । नित्यग्रहणं विस्पष्टार्थम् † ॥
अनुनासिकात्परो ऽनुस्वारः ॥ ४ ॥
अन्यशब्दोऽत्राध्याहर्तव्यः । तदपेक्षया चेयमनुनासिकादिति पञ्चमी ।
अनुनासिकादन्यो यो वर्णः रोः पूर्वः यस्यानुनासिको न विहितस्ततः परो
ऽनुस्वार आगमो भवति । वक्ष्यति । समः सुटि । संस्कर्त्ता । संस्कर्त्तव्यम् ।
पुमः खय्यम्परे । पुंस्कामा । नश्छव्यप्रशान् । भवांश्चरति । के चित्तु परशब्द-
मेवान्यार्थे वर्णयन्ति । अनुनासिकात्परो ऽनुनासिकादन्योऽनुस्वारो भवति ।
यस्मिन्पक्षे ऽनुनासिको नास्ति तत्रानुस्वारागमो भवति । स तु कस्यागमो
भवति रोः पूर्वस्यैवेति वर्तते व्याख्यानादादेशो न भवति ॥
समः सुटि ॥ ५ ॥
रुर्वर्तते । सम इत्येतस्य रुर्भवति सुटि परतः संहितायां विषये ।
संस्कर्त्ता । संस्कर्त्तुम् । संस्कर्त्तव्यम् । संस्स्कर्त्ता । संस्स्कर्त्तुम् । संस्स्कर्त्तव्यम् ।
अत्र रोर्विमर्जनीये कृते वा शरीति पक्षे विसर्जनीय एव प्राप्नोति । व्यवस्थित-
विभाषा द्रष्टव्या । तेनात्र नित्यं सकार एव भवति । अस्मिन्नेव सूत्रे सकारा-
देशो वा निर्द्दिश्यते । समः सुटीति द्विसकारको निर्देशः । सम इति किम् ।
- संहिताधिकार उत्तरत्रेत्यत आरभ्य नश्छव्यप्रशानित्यन्तः पाठः पुस्तकान्तरे नास्ति ।
† नित्यग्रहणं नियमाशङ्कापरिहारार्थमिति पाठः पुस्तकान्तरे ।
५०