सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 768, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 768

॥ काशिका ॥ ८ ॥ २ ॥ ७६७

अमंस्त । अमंस्थाः । झलीति किम् । अभित्साताम् । अभित्सत । अयमपि
सिच एव लोपस्तेनेह न भवति, सोमसुत् स्तोता । दृषत् स्थानमिति ॥
ह्रस्वादङ्गात् ॥ २७ ॥
ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः । अकृत । अकृथाः ।
अहृत । अहृथाः । ह्रस्वादिति किम् । अच्योष्ट । अप्लोष्ट । अङ्गादिति किम् ।
अलाविष्टाम् । अलाविषुः । झलीत्येव । अकृषाताम् । अकृषत । अयमपि
सिच एव लोपस्तेनेह न भवति । द्विष्ठरां द्विष्ठमामिति सुजन्ताद् द्विशब्दात्त-
रप्तमपौ अद्रव्यप्रकर्षे आतिशायिकः आमु प्रत्ययः ॥
इट ईटि ॥ २८ ॥
इट उत्तरस्य सकारस्य लोपो भवति ईटि परतः । अदावीत् । असे-
वीत् । अकोषीत् । अमोषीत् । इट इति किम् । अकार्षीत् । अहार्षीत् । ईटीति
किम् । अलाविष्टाम् । अलाविषुः ॥
स्कोः संयोगाद्योरन्ते च ॥ २९ ॥
पदस्यान्ते यः संयोगः झलि परतो वा संयोगस्तदाद्योः सकारककारयो-
र्लोपो भवति । लस्जेः । लग्नः । लग्नवान् । साधुलक् । ककारस्य । तष्टेः,
तष्ट । तष्टवान् । काष्ठतट् ॥ झलि सङीति वक्तव्यम् ॥ * ॥ किमिदं सङीति ।
सनः सप्रभृति महिङो ङकारेण प्रत्याहारः । इह मा भूत् । काष्ठशक्स्थातेति
थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति । तदत्र शकेः क्विबन्तस्य प्रयोग
एव नास्तीत्याह । काष्ठशगेव नास्ति कुतो ऽयं काष्ठशक् तिष्ठेदिति । वाक्यर्थे,
वाक्यर्थमिति । अत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादि-
लोपो न भवति । स्कोरिति किम् । भर्त्ता । वर्षते । संयोगाद्योरिति किम् ।
पयःशक् । अन्ते चेति किम् । तक्षिता । तक्षकः ॥
चोः कुः ॥ ३० ॥
चवर्गस्य कवर्गादेशो भवति झलि परतः पदान्ते च । पक्ता । पक्तुम् ।
पक्तव्यम् । ओदनपक् । वक्ता । वक्तुम् । वक्तव्यम् । वाक् । कुञ्चेत्यत्र सहोति
वचनाद् अकारस्य चकारे झलि कुत्वं न भवति । युजिक्रुञ्चां चेति निपात-
नाद्वा । नकारोपधो वा धातुरयं रेफरहितश्च कुञ्चकौटिल्याल्पीभावयोरिति
पठ्यते । नकारलोपे हि निकुञ्चिरिति दृश्यते । युजिक्रुञ्चां चेति तस्यैव रेफो-
धिको नकारस्य लोपाभावश्चेति निपात्यते । तत्रानुस्वारस्य परसवर्णस्य चासि-
द्धत्वात् अकार एव नास्तीति कुत्वं न भविष्यति ॥
हो ढः ॥ ३१ ॥