काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 715, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 715
७१४ ॥ काशिका ॥ ७ ॥ ३ ॥
चारभ्यते। तस्मिन्कृते यात उपधाया वृद्धिः प्राप्नोति सा न भवति। यदि हि
स्यादनर्थक एव गुणः स्याद्विविचण्णलोश्च प्रतिषेधवचनमनर्थकम्। अविविचण्णल-
ङित्स्विति किम्। जृतॄवृजाद्भ्यो विन्। जागृविः। चिण्। अजागारि। णल्।
जजागार। ङित्। जागृतः। जागूथः। वीति के चिदिकारमुच्चारणार्थं वर्ण-
यन्ति कसावपि वकारादौ गुणो न भवति। जजागृवान्। अजागरुः। अहं
जजागर इत्यत्र प्रतिषेधः प्राप्नोति, नाप्रतिषेधात्। अविविचण्णलङित्स्विति
पर्युदासोयम्। अथ वा जाय इति प्राप्तिरसावानन्तर्याद् विविचण्णलङित्सु
प्रतिषिध्यते। या तु जुसि च सार्वधातुकार्धधातुकयोरिति च प्राप्तिः सा न
प्रतिषिध्यते ॥
पुगन्तलघूपधस्य च ॥ ८६ ॥
[L