काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 701, कुल 828 में से
संदर्भ में पढ़ेंस्येति ठञ् । सर्वलोक । तत्र विदितः, सार्वलौकिकः । सर्वपुरुषस्येदं, सार्वपौ-
रुषम् । सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । प्रयोग । तत्र भवः,
प्रायोगिकः । परस्त्री । पारस्त्रैणेयः । कुलटाया वेतीन्ङ् * ॥ राजपुरुषात् ष्यञि ॥
राजपौरुष्यम् । ष्यञीति किम् । राजपुरुषस्यापत्यं राजपुरुषायणिः । उदीचां
वृद्धाद्गोत्रादिति फिञ् । शतकुम्भसुखशयनादयः । शतकुम्भे भवः, शातकौम्भः ।
सौखशयनिकः । पारदारिकः † । सूत्रनडस्यापत्यं सौत्रनाडिः । आकृतिगण-
श्चायमिष्यते । तेनेदमपि सिद्धं भवति । अभिगममर्हति, आभिगामिकः । अधि-
देवे भवमाधिदैविकम् । आधिभौतिकम् । चतस्र एव विद्याः, चातुर्वैद्यम् ।
स्वार्थे ष्यञ् । अनुशतक । अनुहोड । अनुसंवत्सर । अङ्गारवेणु । असिसंहत्य ।
वध्याग । पुष्करसत् । अनुहरत् । कुरुकत । कुरुपञ्चाल । उदकश्रुद्दु । इहलोक ।
परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री ॥ राजपुरुषात्
ष्यञि ॥ सूत्रनड ॥
देवताद्वन्द्वे च ॥ २१ ॥
देवताद्वन्द्वे च पूर्वपदोत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति
तद्धिते ञिति णिति किति वा परतः । आग्निमारुतीमनड्वाहीमालभेत । आग्नि-
मारुतं कर्म्म । यो देवताद्वन्द्वः सूक्तहविःसंबन्धी तत्रायं विधिः । इह तु न भवति ।
स्कन्दविशाखौ देवते अस्य, स्कान्दविशाखः । ब्रह्मप्रजापती । ब्राह्मप्रजापत्यम् ॥
नेन्द्रस्य परस्य ॥ २२ ॥
इन्द्रशब्दस्य परस्य यदुक्तं तन्न भवति । सौमेन्द्रः । आग्नेन्द्रः । परस्येति
किम् । ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत् । इन्द्रशब्दे द्वावचौ तत्र तद्धिते
एकस्य यस्येति लोपो ऽपरस्य पूर्वेण सहैकादेश इत्यप्राप्तिरेव वृद्धेः, तदेवं
प्रतिषेधवचनं ज्ञापकम् । बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वे कार्ये भवति पश्चा-
देकादेश इति, तेन पूर्वेषुकामशम इत्यादि सिद्धं भवति ॥
दीर्घाच्च वरुणस्य ॥ २३ ॥
दीर्घादुत्तरस्य वरुणस्य यदुक्तं तन्न भवति । ऐन्द्रावरुणम् । मैत्रावरुणम् ।
दीर्घादिति किम् । अग्निवरुणीमनड्वाहीमालभेत । अग्नेरीदग्नेः सोमवरुणयो-
रित्यस्यानङपवादस्य दृष्टुष्टाविति प्रतिषेधो विधीयते तेन दीर्घात्तरो न भवति ॥
प्राचां नगरान्ते ॥ २४ ॥
* अपपाठो ऽयम् । तत्र हि स्त्र्यङपग्रहणम् । कल्याण्यादिषु परस्त्रीशब्दः पठ्यते तस्मा-
त्कल्याण्यादीनामिनङिति पाठ इति पदमञ्जरी ।
† शतकुम्भेत्यारभ्य पारदारिक इत्यन्तं बहुषु पुस्तकेषु नास्ति ।