काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 700, कुल 828 में से
संदर्भ में पढ़ेंक्रीतं, द्वैशाणम् । त्रैशाणम् । शाणाद्वा, द्वित्रिपूर्वादप्रत्येयण् प्रत्ययः । असंज्ञा-
शाणकुलिजानामिति के चित्पठन्ति । द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः ॥
ञे प्रोष्ठपदानाम् ॥ १८ ॥
अञिति जातार्थो निर्दिश्यते । तत्र यस्तद्धितो विहितस्तस्मिन् ञिति
णिति किति च परतः प्रोष्ठपदानामुत्तरस्याचामादेरचो वृद्धिर्भवति । प्रोष्ठपदा
नाम नक्षत्रं ताभिर्युक्तः काल इत्यण् । तस्य लुबविशेषेदिति लुप् । प्रोष्ठपदासु
जातः । 'ऋतुनक्षत्रेभ्योणिन्यण् । प्रोष्ठपदो माणवकः । अञिति किम् । यदा
प्रोष्ठपदो मेघो धरणीमभिवर्षति । प्रोष्ठपदास भवः प्रोष्ठपदः । प्रोष्ठपदाना-
मिति बहुवचननिर्देशात्पर्यायोपि गृह्यते भद्रपाद इति ॥
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ १९ ॥
हृद् भग सिन्धु इत्येवमन्तेङ्गे