काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 645, कुल 828 में से
संदर्भ में पढ़ें६४४ ॥ काशिका ॥ ७ । १ ॥
एजेः खश् पदरुजविशस्पृशो घञित्येवमादिषु तु इत्संज्ञया भवितव्यम् । तद्धि-
तेषु हि खकारघकारयोरादेशवचनमवकाशवदितीत्संज्ञां बाधितुं नोत्सहते ।
आयनीनेनीनर्कारस्येत्संज्ञायां प्राप्तायां प्रतिविधातव्यं नित्कार्ये हि संभवति ॥
झो ऽन्तः ॥ ३ ॥
प्रत्ययग्रहणमनुवर्त्तते, आदिग्रहणं निवृत्तम् । प्रत्ययावयवस्य झस्य अन्त
इत्ययमादेशो भवति । कुर्वन्ति । सुन्वन्ति । चिन्वन्ति । अद्या श्वो विजनि-
ष्यमाणाः पतिभिः सह शयान्तै । जॄविशिभ्यां झच् । जरन्तः, वेशन्तः । प्रत्य-
यस्येत्येव । उज्झिता । उज्झितुम् । उज्झितव्यम् । अस्मिन्नप्यन्तादेशे कृते
प्रत्ययाद्युदात्तत्वं भवति । तथा च ऋचश्चित्करणमर्थवद्भवति ॥
अभ्यस्तात् ॥ ४ ॥
अभ्यस्तादङ्गादुत्तरस्य झकारस्य अदित्ययमादेशो भवति । ददति ।
ददतु । दधति । दधतु । जक्षति । जक्षतु । जाग्रति । जाग्रतु । अन्तादेशापवादोयं
जुसादेशेन तु बाध्यते । अददुः । अदधुः * । अत्राप्यादेशे कृते प्रत्ययाद्युदा-
त्त्वं भवति ॥
आत्मनेपदेष्वनतः ॥ ५ ॥
आत्मनेपदेषु यो झकारस्तस्यानकारान्तादङ्गादुत्तरस्यादित्ययमादेशो
भवति । चिन्वते । चिन्वताम् । अचिन्वत । लुनते । लुनताम् । अलुनत ।
आत्मनेपदेष्विति किम् । चिन्वन्ति । लुनन्ति । अनत इति किम् । च्यवन्ते ।
प्लवन्ते । नित्यत्वादत्र विकरणे कृते झोन्तादेशेन भवितव्यमित्यादादेशो न
भवति । अनकारान्तेनाङ्गेन झकारविशेषणं किम् । इह मा भूत् । अद्य श्वो
विजनिष्यमाणाः पतिभिः सह शयान्तै ॥
शीङो रुट् ॥ ६ ॥
शीङोङ्गादुत्तरस्य झादेशस्यातो रुडागमो भवति । शेरते । शेरताम् ।
अशेरत । रुडयं परादिः क्रियते । स यदि झकारस्यैव स्याददादेशो न स्यादि-
त्यत एवायमादेशस्यागमो विधीयते । सानुबन्धग्रहणमयङ्लुगर्थम् । तेनेह न
भवति । व्यतिशेश्यते ॥
वेत्तेर्विभाषा ॥ ७ ॥
वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विभाषा रुडागमो भवति । संविदते ।
संविद्रते । संविद्रताम् । संविदताम् । समविदत । समविद्रत । वेत्तिरिति
लुग्विकरणस्येदं ग्रहणम् । इह मा भूत् । विन्ते । विन्दाते । विन्दते इति ॥
- अजक्षुरजागरुरित्यधिकं पुस्तकान्तरे ।