काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 641, कुल 828 में से
संदर्भ में पढ़ें६४० ॥ काशिका ॥ ६ ॥ ४ ॥
सुचिष्ठः। सुचीयान्। सुचयति। एकाजिति किम्। वसुमदित्येतस्य वसिष्ठः॥
प्रकृत्या ऽके राजन्यमनुष्ययुवानः॥ * ॥ अके प्रत्यये परतो राजन्य मनुष्य
युवन्नित्येते प्रकृत्या भवन्ति। राजन्यानां समूहः, राजन्यकम्। मनुष्याणां
समूहः, मानुष्यकम्। आपत्यस्य च तद्धितेनातोति यलोपः प्रकृतिभावेन न
भवति। यूनो भावः, यौवनिका। मनोज्ञादित्वाद् वुञ्। तत्र नस्तद्धितेरिति
टिलोपो न भवति॥
इनण्यनपत्ये ॥ १६४ ॥
इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति। सांकूटिनम्। सांरावि-
णम्। सांमार्जनम्। अभिविधौ भावद्द्युण् अणिणुण इत्यण् *। सम्भिण इदं,
साम्भिणम्। अणीति किम्। दण्डिनां समूहः, दाण्डम्। अनुदात्तादेरञित्य-
ञ्प्रत्ययः। अनपत्यइति किम्। मेधाविनो ऽपत्यं, मैधावः॥
गाथिविदथिकेशिगणिपणिनश्च ॥ १६५ ॥
गाथिन् विदथिन् केशिन् गणिन् पणिन् इत्येते चाणि प्रकृत्या भवन्ति।
गाथिनो ऽपत्यं, गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अप-
त्यार्थीयमारम्भः॥
संयोगादिश्च ॥ १६६ ॥
संयोगादिश्च इनणि प्रकृत्या भवति। शङ्खिनो ऽपत्यं, शाङ्खिनः।
माद्रिणः। वाञ्जिणः॥
अन्नू ॥ १६७ ॥
अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च। सामनः। वैमनः।
सौत्वनः। जैत्वनः॥
ये चाभावकर्मणोः ॥ १६८ ॥
यकारादौ च तद्धिते ऽभावकर्मणोरर्थयोरन् प्रकृत्या भवति। सामसु
साधुः, सामन्यः। ब्रह्मण्यः। अभावकर्मणोरिति किम्। राज्ञो भावः कर्म वा,
राज्यम्। राजन्विति पुरोहितादिषु पठ्यते। ततोयं यक् प्रत्ययः॥
आत्माध्वानौ खे ॥ १६९ ॥
आत्मन् अध्वन् इत्येतौ खे परतः प्रकृत्या भवतः। आत्मने हितं,
आत्मनीनः। अध्वानमलङ्गामी, अध्वनीनः। खइति किम्। प्रत्यात्मम्।
प्राध्वम्। प्रत्यात्ममित्यव्ययीभावे ऽनश्चेति समासान्तष्टच्प्रत्ययः। प्राध्वमित्यु-
पसर्गादध्वन इति चात्प्रत्ययः॥
- अभिविधावित्यारभ्य इत्यण् इत्यन्तः पाठो बहुत्र नास्ति।