सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 624, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 624

॥ काशिका ॥ ६ ॥ ४ ॥ ६२३
इरयो रे ॥ ७६ ॥
इरे इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति । गर्भे
प्रथमं दध्र आपः । या ऽस्य परिदधे । धाञो रेभावस्यासिद्धत्वादातो लोपो
भवति । न च भवति । परमाया धियोऽग्निकर्माणि चक्रिरे । अत्र रेशब्दस्य सेटाम्
धातूनामिरिट् कृते पुनः रेभावः क्रियते तदर्थमिरयोरित्ययं द्विवचननिर्देशः ॥
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ॥ ७७ ॥
श्नुप्रत्ययान्तस्याङ्गस्य धातोरिवर्णोवर्णान्तस्य भ्रू इत्येतस्य इयङ् उवङ्
इत्येतावादेशौ भवतो ऽचि परतः । आप्नुवन्ति । राध्नुवन्ति । शक्नुवन्ति ।
धातोः । चिक्षियतुः । चिक्षियुः । लुलुवतुः । लुलुवुः । नियौ । नियः । लुवौ ।
लुवः । भ्रुवौ । भ्रुवः । अचीति किम् । आप्नुयात् । शक्नुयात् । राध्नुयात् ।
श्नुधातुभ्रुवामिति किम् । लक्ष्म्यै । वध्वै । य्वोरिति किम् । चक्रतुः । चक्रुः ।
इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । चयनम् । चायकः । लवनम् ।
लावकः ॥ इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्त्त-
व्यम् ॥ * ॥ तन्वं पुषेम । तनुवं पुषेम । विषुवं पुषेम । स्वर्गी लोकः ।
सुवर्गी लोकः । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥
अभ्यासस्यासवर्णे ॥ ७८ ॥
अभ्यासस्येवर्णोवर्णान्तस्यासवर्णे ऽचि परत इयङ् उवङ् इत्येतावादेशौ
भवतः । इयेष । उवोष । इयर्त्ति । असवर्णेति किम् । ईषतुः । ईषुः ।
ऊषतुः । ऊषुः । अचीत्येव । इयाय । उवाप ॥
स्त्रियाः ॥ ७९ ॥
स्त्री इत्येतस्याजादौ प्रत्यये परत इयङादेशो भवति । स्त्री । स्त्रियौ ।
स्त्रियः । स्त्रीणामित्यत्र परत्वान्नुडागमः । पृथग्योगकरणमुत्तरार्थम् ॥
वा ऽम्शसोः ॥ ८० ॥
अमि शसि परतः । स्त्रिया वा इयङादेशो भवति । स्त्रीं पश्य । स्त्रियं
पश्य । स्त्रीः पश्य । स्त्रियः पश्य ॥
इणो यण् ॥ ८१ ॥
इणोऽङ्गस्य यणादेशो भवति अचि परतः । यन्ति । यन्तु । आयन् ।
इयङादेशापवादोयम् । मध्येपवादाः पूर्वान्विधीन्बाधन्तइति गुणवृद्धिभ्यां पर-
त्वाद् बाध्यते । अयनम् । आयकः ॥
एरनेकाचो ऽसंयोगपूर्वस्य ॥ ८२ ॥