काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 614, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ४ ॥ ६१३
श्नान्नलोपः ॥ २३ ॥
श्नादिति श्नमयमुत्सृष्टमकारो गृह्यते । तत उत्तरस्य नकारस्य लोपो
भवति । अनक्ति । भनक्ति । छिनत्ति । शकारवतो ग्रहणं किम् । यत्नानाम् ।
यत्नानाम् । सुपि चेति परत्वात् कृते ऽपि दीर्घत्वे स्थानिवद्भावाच्चलोपः स्यादेव ।
विश्नानां प्रश्नानामित्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भवति ॥
अनिदितां हल उपधायाः क्ङिति ॥ २४ ॥
अनिदितामङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति क्ङिति
प्रत्यये परतः । स्रस्तः । ध्वस्तः । स्रस्यते । ध्वस्यते । सनीस्रस्यते । दनीध्व-
स्यते । अनिदितामिति किम् । नन्द्यते । नानन्द्यते । हल इति किम् ।
नीयते । नेनीयते । उपधाया इति किम् । नह्यते । नानह्यते । क्ङितीति कि