सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 599, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 599

५९८ ॥ काशिका ॥ ६ । ३ ॥
मूर्द्धन् प्रभृति उदर्क इत्येतान्युत्तरपदानि वर्ज्जयित्वा । अनुजाता सगर्भ्यः ।
अनुसक्षा सयूथ्यः । यो नः सनुत्यः । समानो गर्भः सगर्भः, तत्र भवः
सगर्भ्यः । सगर्भसयूथसनुताब्दादिति यत् प्रत्ययः । अमूर्द्धप्रभृत्युदर्केष्विति
किम् । समानमूर्द्धा । समानप्रभृतयः । समानोदर्काः । समानस्येति योगवि-
भाग इष्टप्रसिद्ध्यर्थः क्रियते । तेन सपत्नः, साधर्म्यं, सजातीय, इत्येवमादयः
सिद्धा भवन्ति ॥
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण-
वयोवचनबन्धुषु ॥ ८५ ॥
ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन
बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति । सज्योतिः । सजन-
पदः । सरात्रिः । सनाभिः । सनामा । सगोत्रः । सरूपः । सस्थानः ।
सवर्णः । सवयाः । सवचनः । सबन्धुः ॥
चरणे ब्रह्मचारिणि ॥ ८६ ॥
चरणे गम्यमाने ब्रह्मचारिण्युत्तरपदे समानस्य स इत्ययमादेशो भवति ।
समानो ब्रह्मचारी, सब्रह्मचारी । ब्रह्म वेदस्तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म
तच्चरतीति ब्रह्मचारी । समानस्तस्यैव ब्रह्मणः समानत्वादित्ययमर्थो भवति ।
समाने ब्रह्मणि व्रतचारी सब्रह्मचारीति ॥
तीर्थे ये ॥ ८७ ॥
तीर्थशब्दउत्तरपदे यत्प्रत्ययपरे परतः समानस्य स इत्ययमादेशो
भवति । सतीर्थ्यः । समानतीर्थे वासीति यत्प्रत्ययः ॥
विभाषोदरे ॥ ८८ ॥
उदरशब्दउत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो
भवति । सोदर्यः । समानोदर्यः । समानोदरे शयित ओ चोदात्त इति यत् ॥
दृग्दृशवतुषु ॥ ८९ ॥
दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति ।
'सदृक् । सदृशः । त्यदादिषु दृशो ऽनालोचने कञ्चेत्यत्र समानान्ययोश्चेति
वक्तव्यमिति कञ्क्किनौ प्रत्ययौ क्रियेते ॥ दृक्षे चेति वक्तव्यम् ॥ * ॥ सदृक्षः ॥
दृशेः क्सप्रत्ययोपि तत्रैव वक्तव्यः ॥ * ॥ वतुग्रह्णमुत्तरार्थम् ॥
इदंकिमोरीश्की ॥ ९० ॥
इदं किम् इत्येतयोरीश की इत्येतौ यथासंख्यमादेशौ भवतो दृग्दृश-