सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 559, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 559

५५८ ॥ काशिका ॥ ६ ॥ २ ॥
इत्यर्थः । अनिवसन्त इति किम् । दाक्षिग्रामः । माहकिग्रामः । दाक्ष्यादयो
वसन्ति यस्मिन्ग्रामे स तेषामिति व्यपदिश्यते ॥
घोषादिषु च ॥ ८५ ॥
घोषादिषु चोत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । दाक्षिघोषः । दाक्षि-
कटः । दाक्षिपल्वलः * । दाक्षिह्रदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपि-
शङ्गः । दाक्षिशालः । दाक्षिरथः । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दा-
क्षिशाल्मली । आश्रममुनिः । शाल्मलिमुनिः । दाक्षिपूंसा । दाक्षिकूटः । यान्यत्र
निवासनामधेयानि तेषु निवसद्वाचीन्यपि पूर्वपदान्याद्युदात्तानि भवन्ति । अनि-
वसन्त इति नानुवर्त्तयन्ति के चित् । अपरे पुनरनुवर्त्तयन्ति ॥
छात्र्यादयः शालायाम् ॥ ८६ ॥
शालायामुत्तरपदे छात्र्यादय आद्युदात्ता भवन्ति । छात्रिशाला । ऐलि-
शाला । भार्य्यिशाला । छात्रि । ऐलि । भार्य्यि । व्याडि । आपिशलि । आश्र-
थिङ । आपारि । गौमि । यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदापि
तत्पुरुषे शालायां नपुंसकइत्येतस्मात्पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति ।
छात्रिशालम् । ऐलिशालम् ॥
प्रस्थे ऽवृद्धमकर्क्यादीनाम् ॥ ८७ ॥
प्रस्थशब्दउत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति ।
इन्द्रप्रस्थः । कुण्डप्रस्थः । हृदप्रस्थः । सुवर्णप्रस्थः । अवृद्धमिति किम् । दाक्षि-
प्रस्थः । माहकिप्रस्थः । अकर्क्यादीनामिति किम् । कर्कीप्रस्थः । मघीप्रस्थः ।
कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरञ् † । बदर ॥
मालादीनां च ॥ ८८ ॥
प्रस्थइति वर्तते । प्रस्थउत्तरपदे मालादीनामादिरुदात्तो भवति । माला-
प्रस्थः । शालाप्रस्थः । माला । शाला । शोणा । द्राक्षा । क्षौमा । चामा । काञ्ची ।
एक । काम । वृद्धार्थ आरम्भः । एकशोणाशब्दयोरेङ् प्राचां देशइति वृद्धसंज्ञा ॥
अमहन्नवं नगरे ऽनुदीचाम् ॥ ८९ ॥
नगरशब्दउत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति तच्चे दु-
दीचां न भवति । सुह्मनगरम् । पुण्ड्रनगरम् ‡ । अमहन्नवमिति किम् । महा-
नगरम् । नवनगरम् । अनुदीचामिति किम् । नान्दीनगरम् । कान्तीनगरम् ॥

  • दाक्षिवल्लभः । पा० २ ।
    † कदल । पा० २ ।
    ‡ विराटनगरमिति पुस्तकान्तरे ऽधिकम् ।