सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 55, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 55

४८ ॥ काशिका ॥ १ । ३ ॥
रिति भ्वादौ च ॠ गताविति जुहोत्यादौ, विशेषाभावाद् द्वयोरपि ग्रहणम् ।
विदेर्ज्ञानाद्यर्थस्य ग्रहणं, परस्मैपदिभिर्गमादिभिः साहचर्यान्न लाभार्थस्य स्वरिते-
त्त्वादुभयतोभाषस्य । दृशेश्चेति वक्तव्यम् ॥ * ॥ संपश्यते । चाकर्मकादित्येव ।
ग्रामं संपश्यति ॥
निसमुपविभ्यो ह्वः ॥ ३० ॥
चाकर्मकादिति निवृत्तम् । अतः परं सामान्येनात्मनेपदविधानं प्रतिप-
त्तव्यम् । नि सम् उप वि इत्येवंपूर्वाद् ह्वयतेर्धातोरात्मनेपदं भवति । निह्व-
यते । संह्वयते । उपह्वयते । विह्वयते । अकर्त्रभिप्रायार्थोयमारम्भः । अन्यत्र हि
ञित्त्वात्सिद्धमेवात्मनेपदम् । उपसर्गादस्यत्यूह्योर्वा वचनम् ॥ * ॥ निरस्यति ।
निरस्यते । समूहति । समूहते ॥
स्पर्द्धायामाङः ॥ ३१ ॥
अकर्त्रभिप्रायार्थोयमारम्भः । स्पर्द्धायां विषये आङ्पूर्वाद् ह्वयतेरात्मनेपदं
भवति । स्पर्द्धा संघर्षः पराभिभवेच्छा स विषयो धात्वर्थस्य । धातुस्तु शब्द-
क्रिय एव । मल्लो मल्लमाह्वयते । छात्रश्छात्रमाह्वयते । स्पर्द्धमानस्तस्याह्वानं
करोतीत्यर्थः । स्पर्द्धायामिति किम् । गामाह्वयति गोपालः ॥
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथ-
नापयोगेषु कृञः ॥ ३२ ॥
कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रायार्थोयमारम्भः ।
गन्धनादिष्वर्थेषु वर्तमानात्करोतेरात्मनेपदं भवति । गन्धनमपकारप्रयुक्तं हिंसा-
त्मकं सूचनम् । तथाहि, वस्त गन्ध अर्द्दने, अर्द्दनं हिंसायाम्, इति । चुरादौ
पठ्यते । अवक्षेपणं भर्त्सनम् । सेवनमनुवृत्तिः । साहसिक्यं साहसिकं कर्म ।
प्रतियत्नः सतो गुणान्तराधानम् । प्रकथनं प्रकर्षेण कथनम् । उपयोगो धर्म्मा-
दिप्रयोजनो विनियोगः । गन्धने तावत् । उत्कुरुते । उदाकुरुते । सूचयतीत्यर्थः ।
अवक्षेपणे । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । सेवने । गणकमुपकुरुते ।
महामात्रानुपकुरुते । सेवतइत्यर्थः । साहसिक्ये । परदारान्प्रकुरुते । तेषु सहसा
प्रवर्ततइत्यर्थः । प्रतियत्ने । एधो दकस्योपस्कुरुते । काष्ठं गुडस्योपस्कुरुते । तस्य
सतो गुणान्तराधानं करोतीत्यर्थः । षष्ठीसुटौ करोतेः प्रतियत्नएव विधी-
येते * । प्रकथने । गाथाः प्रकुरुते । जनपवादान्प्रकुरुते । प्रकर्षेण कथयती-
त्यर्थः । उपयोगे । शतं प्रकुरुते । सहस्रं प्रकुरुते । धर्म्मार्थं शतं विनियुङ्क्त-
त्यर्थः । एतेष्विति किम् । कटं करोति ॥

  • कृञः प्रतियत्न इति षष्ठी । उपात्प्रतियत्नेति मुदिति सुत्र चित्त्यपाठः ।