सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 54, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 54

॥ काशिका ॥ १ । ३ ॥ ५०
रणमुपश्लेषः । तद्यथा । गङ्गा यमुनामुपतिष्ठते । मित्रकरणं तु विनाप्युपश्ले-
षेण मैत्रीसंबन्धः । पथि । अयं पन्थाः स्रुघ्नमुपतिष्ठते । वा लिप्सायामिति वक्त-
व्यम् ॥ * ॥ भिक्षुको ब्राह्मणकुलमुपतिष्ठते । उपतिष्ठतीति वा ॥
अकर्मकाच्च ॥ २६ ॥
उपादिति वर्तते । उपपूर्वात् तिष्ठतेरकर्मकादकर्मकक्रियावचनादात्मने-
पदं भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनमुपतिष्ठते । भुक्तमिति भावे क्तप्रत्ययः।
भोजनेभोजने संविधीयतइत्यर्थः । अकर्मकादिति किम् । राजानमुपतिष्ठति ॥
उद्विभ्यां तपः ॥ २७ ॥
अकर्मकादिति वर्तते । उद्वि इत्येवंपूर्वात् तपतेरकर्मकक्रियावचना-
दात्मनेपदं भवति । उत्तपते । वितपते । दीप्यत इत्यर्थः । अकर्मकादित्येव ।
उत्तपति सुवर्णं सुवर्णकारः । वितपति पृष्ठं सविता । स्वाङ्गकर्मकाच्चेति वक्त-
व्यम् ॥ * ॥ उत्तपते पाणिम् । उत्तपते पृष्ठम् । वितपते पाणिम् । वितपते
पृष्ठम् । स्वाङ्गं चेह न पारिभाषिकं गृह्यते ऽद्रवं मूर्त्तिमत् स्वाङ्गमिति । किं
तर्हि, स्वमङ्गं स्वाङ्गम् । तेनेह न भवति । देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपतीति ।
उद्विभ्यामिति किम् । निष्टपति ॥
आङो यमहनः ॥ २८ ॥
अकर्मकादिति वर्तते । यम उपरमे हन, हिंसागत्योरिति परस्मैपदिनौ ।
ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति । आयच्छते ।
आयच्छेते । आयच्छन्ते । हनः खल्वपि । आहते । आघ्नाते । आघ्नते । अकर्म-
कादित्येव । आयच्छति कूपाद्रज्जुम् । आहन्ति वृषलं पादेन । स्वाङ्गकर्मका-
च्चेति वक्तव्यम् । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं चेह न पारि-
भाषिकं गृह्यते किं तर्हि, स्वमङ्गं स्वाङ्गं, तेनेह न भवति । आहन्ति शिरः पर-
कीयमिति ॥
समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः ॥ २९ ॥
अकर्मकादिति वर्तते । शेषात् कर्त्तरि परस्मैपदे प्राप्ते संपूर्वेभ्यो गमि
ऋच्छि प्रच्छ स्वरति अर्ति श्रु विदि इत्येतेभ्यो ऽकर्मकेभ्यो धातुभ्य आत्मनेपदं
भवति । संगच्छते । समृच्छते । संपृच्छते । संस्वरते । संकल्पा अस्य समरन्त ।
ऋतेर्लुङि ऋेः सार्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । तत्र परस्मैपदेष्वित्येतदाश्रीयते
बहुलं छन्दस्यमाङ्योगेऽपीत्याट् प्रतिषिध्यते । ऋदृशोऽङि गुण इति गुणः ।
समरन्त । संशृणुते । संवित्ते । ऋच्छेरनादेशस्य ग्रहणम् । समृच्छिष्यते । आर्त्या-
देशस्य त्वर्तैरित्येव सिद्धमात्मनेपदम् । अर्तिरभयत्र पठ्यते, ऋ गतिप्रापणयोः