सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 542, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 542

मात्रच उत्पचस्य प्रमाणे लो द्विगोर्नित्यमिति लुक् । प्राच्यश्चासौ सप्तसम-
श्वेति, प्राच्यसप्तसमः । प्राच्यशब्द चाद्युदात्तः । गान्धारिशब्दः कर्दमादि-
त्वाद्युदात्तो मध्योदात्तो वा । द्विगोर्निति किम् । व्रीहिप्रस्थः । प्रमाणइति
किम् । परमसप्तसमः ॥
गन्तव्यपण्यं वाणिजे ॥ १३ ॥
वाणिजशब्दउत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्व-
पदं प्रकृतिस्वरं भवति । मद्रवाणिजः । काश्मीरवाणिजः । गान्धारिवाणिजः ।
मद्रादिषु गत्वा व्यवहरन्तीत्यर्थः । सप्तमीसमासा एते । तत्र मद्रशब्दो रक्-
प्रत्ययान्तत्वादन्तोदात्तः । काश्मीरशब्दोपि पृषोदरादिषु मध्योदात्तः । गान्धा-
रिशब्दः कर्दमादिषु पठ्यते तत्र कर्दमादीनां चेति पक्षे चाद्युदात्तो भवति
द्वितीयो वा । पण्य । गोवाणिजः ।