सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 527, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 527

५२६ ॥ काशिका ॥ ६ । १ ।
कितः ॥ १६५ ॥
तद्धितस्येत्येव । तद्धितस्य कितोरन्त उदात्तो भवति । नडादिभ्यः फक् ।
नाडायनः । चारायणः । प्रामहतेष्ठक् । प्राह्तिकः । शालालिकः ॥
तिसृभ्यो जसः ॥ १६६ ॥
तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति । तिस्रस्तिष्ठन्ति । उदात्तस्व-
रितयोर्यणः स्वरितोऽनुदात्तस्येत्यस्यापवादः । शसि उदात्तयणो हल्पूर्वादिति
सिद्धे ऽन्यत्र बहुवचने षट्चतुर्भ्यश्चेति हलादिरिति विधानाज्जसेव लभ्यत इति
जस्ग्रहणमुपसमस्तार्थमेकद्वल्लि । अतितिस्रावित्यत्र स्वरो मा भूदिति ॥
चतुरः शसि ॥ १६७ ॥
चतुरः शसि परतो ऽन्त उदात्तो भवति । चतुरः पश्य * । चतस्रादेशे
चाद्युदात्तनिपातनाद्यादेशस्य च पूर्वविधौ स्थानिवद्भावादयं स्वरो न भवति
चतस्रः पश्येति ॥
सावेकाचस्तृतीयादिर्विभक्तिः ॥ १६८ ॥
साविति सप्तमीबहुवचनस्य सुप्शब्दस्य ग्रहणम् । तत्र सौ य एकाच् तस्मा-
त्परा तृतीयादिर्विभक्तिरुदात्ता भवति । वाचा । वाग्भ्याम् । वाग्भिः । वाग्भ्यः ।
याता । याद्द्भ्याम् । याद्भिः । साविति किम् । राज्ञा । राज्ञे । एकाच इति किम् । हरि-
णा । गिरिणा । राजसु । तृतीयादिरिति किम् । वाचे । वाचः । विभक्तिरिति
किम् । वाक्तरा । वाक्तमा । सप्तमीबहुवचनस्य ग्रहणादिह न भवति त्वया मयीति ॥
अन्तोदात्तादुत्तरपदान्यतरस्यामनित्यसमासे ॥ १६९ ॥
एकाच इति वर्तते, तृतीयादिर्विभक्तिरिति च । नित्यशब्दः स्वर्यते ।
तेन नित्याधिकारविहितः समासः पर्युदस्यते । नित्यसमासादन्यत्रानित्यसमासे
यदुत्तरपदमन्तोदात्तमेकाच्च तस्मात्परा तृतीयादिर्विभक्तिरन्यतरस्यामुदात्ता
भवति । परमवाचा । २ । परमवाचे । २ । परमत्वचा । २ । परमत्वचे । २ ।
यदा विभक्तिरुदात्ता न भवति तदा समासान्तोदात्तत्वमेव । अन्तोदात्तादिति
किम् । प्रावाचा । सुवाचा । सुत्वचा । तत्पुरुषोयम् । तत्र तत्पुरुषे तुल्यार्थ-
तृतीयासप्तम्युपमानाव्ययेति पूर्वपदप्रकृतिस्वरः । उत्तरपदग्रहणमेकाच्त्वेनोत्तर-
पदं विशेषयितुम् । अन्यथा हि समासविशेषणमेतत्स्यात् । तत्र शुन कर्णे
श्वाक्ष्ण्वित्यत्रैवायं विधिः स्यात् । अनित्यसमासादिति किम् । अग्निचित्ता । सोम-
सुता । उपपदमतिङ् इत्ययं नित्यं नित्याधिकारे समासो विधीयते । तत्र
गतिकारकोपपदात् कृदित्युत्तरपदप्रकृतिस्वरेण चित् शब्द उदात्तः । मद्गु भिन्न-

  • चतुरो वेशीत्यपि पुस्तकान्तरे ।