सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 516, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 516

॥ काशिका ॥ ६ ॥ १ ॥ ५१५

अथोवाद्यपूर्वस्य योशीत्यस्मिन्नपि उत्वं विधीयते । रुत्वमस्याश्रयत्वात्पूर्वत्रासि-
द्धमित्यसिद्धं न भवति । अत इति किम् । अग्निरत्र । तपरकरणं किम् । वृक्षा
अत्र । सानुबन्धग्रहणं किम् । स्वरत्र । प्रातरत्र । अत इत्येव । वृक्ष इह । तस्यापि
तपरत्वादत्र न भवति । वृक्ष आश्रितः । अप्लुतादिति किम् । सुश्रोता३ अत्र
न्वसि । अप्लुत इति किम् । तिष्ठतु पय आ३इश्विन् । अत्र प्लुतस्यासिद्धत्वादुत्वं
प्राप्नोतीत्यप्लुतादप्लुत इत्युच्यते ॥
हशि च ॥ ११४ ॥
हशि च परतो ऽत उत्तरस्य रोरुकारादेशो भवति । पुरुषो याति ।
पुरुषो हसति । पुरुषो ददाति ॥
प्रकृत्या ऽन्तःपादमव्यपरे ॥ ११५ ॥
एङो ऽतीत्येव । एह इति यत्पञ्चम्यन्तमनुवर्त