काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 498, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ १ ॥ ४८७
ह्वः संप्रसारणम् ॥ ३२ ॥
णौ च संश्चङोरिति वर्तते । सन्यरे चङ्परे च णौ परतो ह्वः संप्रसारणं
भवति । जुहावयिषति । जुहावयिषतः । जुहावयिषन्ति । अजूहवत् । अजूह-
वताम् । अजूहवन् । संप्रसारणस्य बलीयस्त्वात् शाच्छासाह्वाव्यावेपां युगिति
प्रागेव युग् भवति । संप्रसारणमिति वर्तमाने पुनः संप्रसारणमित्युक्तं विभाषे-
त्यस्य निवृत्त्यर्थम् । ह्वः संप्रसारणमभ्यस्तस्येत्येकयोगेन सिद्धे पृथग्योगकरणम-
नभ्यस्तनिमित्तप्रत्ययव्यवधाने संप्रसारणाभावज्ञापनार्थम् । हायकमिच्छति हाय-
कीयति । हायकीयतेः सन् जिहायकीयिषति ॥
अभ्यस्तस्य च ॥ ३३ ॥
ह्व इति वर्तते, तदभ्यस्तस्य चेत्यनेन व्यधिकरणम्, अभ्यस्तस्य यो
हूयतिः, कश्चाभ्यस्तस्य हूयतिः, कारणं, तेनाभ्यस्तकारणस्य हूयतेः प्रागेव
द्विर्वचनात्सं प्रसारणं भवति । जुहाव । जोहूयते । जुहूषति ॥
बहुलं छन्दसि ॥ ३४ ॥
ह्व इति वर्तते । छन्दसि विषये हूयतेर्द्धातोर्बहुलं संप्रसारणं भवति ।
इन्द्राग्नी हुवे । देवीं सरस्वतीं हुवे । ह्वञो लट्यात्मनेपदोत्तमैकवचने बहुलं
छन्दसीति शपो लुकि कृते संप्रसारणमुवङादेशश्च । न च भवति । हूयामि
मरुतः शिवान् । हूयामि विश्वान्देवान् ॥
चायः की ॥ ३५ ॥
बहुलं छन्दसीति वर्तते । चायतेर्द्धातोश्छन्दसि विषये बहुलं कीत्यय-
मादेशो भवति । विधुना निचिक्युः । नान्यं चिक्युर्न निचिक्युरन्यम् । लिट्युसि
रूपम् । न भवति । अग्निर्ज्योतिर्निनचाय्यः ॥
अपस्पृधेथामानृचुरानृहुश्चिच्युषे तित्याजश्राताः
श्रितमाशीराशीर्त्तः ॥ ३६ ॥
छन्दसीति वर्तते । अपस्पृधेथामिति । स्पर्धूँ संघर्षे इत्यस्य लङि आथामि
द्विर्वचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात् । इन्द्रश्च विष्णो यदप-
स्पृधेथाम् । अस्पर्घेथामिति भाषायाम् । अपर आह । स्पर्धेरपपूर्वस्य लङि थामि
संप्रसारणमकारलोपश्च निपातनात् । बहुलं छन्दस्यमाङयोगेपीत्यडागमाभावः ।
अत्र प्रत्युदाहरणमपास्पर्धेथामिति भाषायाम् । आनृचुरानृहुरिति । अर्च्चूँ पूजा-
यामर्च पूजायामित्यनयोर्द्धात्वोर्लिट्युसि संप्रसारणमकारलोपश्च निपातनात् ।
ततो द्विर्वचनमुरदत्वमत आदेरिति दीर्घत्वम् । तस्माच्छुट् द्विहल इति नुडा-
गमः । यच्छा अर्कमानृचुः । न वसून्यानृहुः । आनर्चुः, आनर्हुरिति भाषायाम् ।
३२