काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 494, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ १ ॥ ४२३
धातूनां ङिति प्रत्यये परतश्चकारात्किति च संप्रसारणं भवति । ग्रह । गृहीतः ।
गृहीतवान् । ङिति । गृह्णाति । जरीगृह्यते । ज्या । जीनः । जीनवान् । स्वा-
दिभ्य इति निष्ठानत्वम् । ङिति । जिनाति । जेजीयते । हल इति संप्रसार-
णदीर्घे कृते प्वादीनामिति ह्रस्वः क्रियते । वयि । लिटि परतो वेञो वयिरा-
देशस्तस्य ङिद्भावात् किदेवोदाह्रियते । ऊयतुः । ऊयुः । यद्येवं वयिग्रहण-
मनर्थकम्, यजादिषु वेञ् पठ्यते । नैवं शक्यम् । लिटि तस्य वेञ इति प्रति-
षेधो वक्ष्यते । तत्र यथैव स्थानिवद्भावाद्वयैर्विधिरेवं प्रतिषेधोपि प्राप्नोति । नैष
दोषः । लिटि वयो य इति यकारस्य संप्रसारणप्रतिषेधाद् वयैर्विधौ ग्रहणं
प्रतिषेधे वा ग्रहणमनुमास्यते । सत्यमेतत् । एष एवार्थः साक्षान्निर्देशेन वयेः
स्पष्टीक्रियते । व्यध । विद्धः । विद्धवान् । ङिति । विध्यति । वेविध्यते । वश ।
उशितः । उशितवान् । ङिति । उष्टः । उशन्ति । व्यच । विचितः । विचितवान् ।
ङिति । विचति । वेविच्यते । व्यचेः कुटादित्त्वमनसि प्रतिपादितम् । तेन सर्वत्रा-
ङित्किति प्रत्यये संप्रसारणं भवति । उद्विचिता । उद्विचितुम् । उद्विचितव्यमिति ।
व्रश्चेः । वृक्णः । वृक्णवान् । अथ कथमत्र कुत्वे व्रश्चभ्रस्जेति हि षत्वेन
भवितव्यम् ॥ निष्ठादेशः षत्वस्वरप्रत्ययविधीद्विधिषु सिद्धो वक्तव्यः ॥ * ॥ तत्र
षत्वं प्रतिनत्वस्य सिद्धत्वाद् झलादिनिष्ठा न भवति । कुत्वे तु कर्त्तव्ये तद-
सिद्धमेवेति प्रवर्तते कुत्वम् । ङिति । वृश्चति । वरीवृश्च्यते । प्रच्छ । पृष्टः ।
पृष्टवान् । ङिति । पृच्छति । परीपृच्छ्यते । प्रश्नः । नङि तु प्रश्ने चास्रवका-
सरिति निपातनादसंप्रसारणम् । भ्रस्ज । भृष्टः । भृष्टवान् । ङिति । भृज्जति ।
बरीभृज्यते । सकारस्य झलां जश् झशीति जश्त्वेन दकारः, स्तोः श्चुना
श्चुरिति श्चुत्वेन जकारः ॥
लित्यभ्यासस्योभयेषाम् ॥ १७ ॥
उभयेषां वच्यादीनां ग्रहादीनां च लिटि परतो ऽभ्यासस्य संप्रसारणं
भवति । वचि । उवाच । उवचिथ । स्वप् । सुष्वाप । सुष्वपिथ । यज । इयाज ।
इयजिथ । टुवप् । उवाप । उवपिथ । ग्रहादीनां, तत्र ग्रहेरविशेषः । जग्राह ।
जग्रहिथ । ज्या । जिज्यौ । जिज्यिथ । वयि । उवाय । उवयिथ । व्यध ।
विव्याध । विव्यधिथ । वश । उवाश । उवशिथ । व्यच । विव्याच । विव्य-
चिथ । वृश्चतेः सत्यसति वा योगे नास्ति विशेषः । योगारम्भे तु सति यदि
संप्रसारणमकृत्वा हलादिःशेषेण रेफो निवर्त्यते तदा वकारस्य संप्रसारणं प्राप्नोति ।
अथ रेफस्य संप्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते । तदानीमुरदत्वस्य स्थानि-
वद्भावाच्च संप्रसारणे संप्रसारणमिति प्रतिषेधो भवतीत्यस्ति विशेषः । वव्रश्च ।
वव्रश्चिथ । पृच्छतिभृज्जत्योरविशेषः । ऋकिदर्थं चेदमभ्यासस्य संप्रसारणं विधी-