काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 49, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 49
४२ ॥ काशिका ॥ १ ॥ ३ ॥
भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते ।
भूवो वाऽर्थे वदन्तीति भ्वर्था वा वादयः स्मृताः ॥
धातुप्रदेशा धातोरित्येवमादयः ॥
॥ उपदेशेऽजनुनासिक इत् ॥ २ ॥
उपदिश्यतेनेनेत्युपदेशः शास्त्रवाक्यानि सूत्रपाठः खिलपाठश्च तत्र
योऽजनुनासिकः स इत्संज्ञो भवति । एध । स्पर्धृ । प्रतिज्ञानुनासिक्याः पाणि-
नीयाः । उपदेशइति किम् । अश्वत्थो धवः । अजिति किम् । आतो मनिन् क्वनि-
ब्वनिपश्च । अनुनासिक इति किम् । सर्वेषामचो मा भूत् । ऋत इद्धातोः आदित-
श्चेत्येवमादयः ॥
॥ हलन्त्यम् ॥ ३ ॥
उपदेशइति वर्तते । अन्ते भवमन्त्यम् । धात्वादेः समुदायस्य यदन्त्यं हल्
तदित्संज्ञं भवति । अ इ उ ण् ।