सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 48, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 48

॥ काशिका ॥ १ ॥ ३ ॥ ४१
शुक्लानि । अनपुंसकेनेति किम् । शुक्लं च शुक्लं च शुक्लं च शुक्लानि । एकवच्चेति
न भवति ॥
पिता मात्रा ॥ ७० ॥
अन्यतरस्यामिति वर्तते नैकवदिति । मात्रा सहवचने पितृशब्दः शिष्यते
अन्यतरस्याम् । माता च पिता च पितरौ । मातापितराविति वा ॥
श्वशुरः श्वश्रूवा ॥ ७१ ॥
अन्यतरस्यामिति वर्तते । श्वश्र्वा सहवचने श्वशुरशब्दः शिष्यते अन्य-
तरस्याम् । श्वशुरश्च श्वश्रूश्च श्वशुरौ । श्वश्रूश्वशुराविति वा ॥
त्यदादीनि सर्वैर्नित्यम् ॥ ७२ ॥
त्यदादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिर-
न्यैश्च । सर्वग्रहणं साकल्यार्थं, नित्यग्रहणं विकल्पानिवृत्त्यर्थम् । स च देवद-
त्तश्च तौ । यश्च देवदत्तश्च यौ । त्यदादीनां मिथो यत्परं तच्छिष्यते ॥ * ॥
[L14