सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 488, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 488

॥ काशिका ॥ ५ ॥ ४ ॥ ४८०
न संज्ञायाम् ॥ १५५ ॥
संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति । पूर्वेण प्राप्तः
प्रतिषिध्यते । विश्वे देवा अस्य, विश्वदेवः । विश्वयशाः ॥
ईयसश्च ॥ १५६ ॥
ईयसन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । सर्वा प्राप्तिः प्रतिषिध्यते ।
बहवः श्रेयांसो ऽस्य बहुश्रेयान् । शेषाद्विभाषेत्यस्य प्रतिषेधः । बह्व्यः श्रेयस्यो
ऽस्य बहुश्रेयसी । नद्यृतश्चेत्यस्य प्रतिषेधः । ह्रस्वत्वमपि न भवति । ईयसो
बहुव्रीहौ पुंवदिति वचनात् ।
वन्दिते भ्रातुः ॥ १५७ ॥
वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति ।
वन्दितः स्तुतः पूजित इत्युच्यते । शोभनो भ्राता ऽस्य सुभ्राता । वन्दितइति
किम् । मूर्खभ्रातृकः । दुष्टभ्रातृकः ॥
ऋतश्छन्दसि ॥ १५८ ॥
ऋवर्णान्ताद् बहुव्रीहेरश्छन्दसि विषये कप् प्रत्ययो न भवति । हता
माता ऽस्य हतमाता । हतपिता । हतस्वसा । सुहोता ॥
नाडीतन्त्र्योः स्वाङ्गे ॥ १५९ ॥
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति ।
बह्व्यो नाड्यो ऽस्य बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । धमनीवचनस्तन्त्री-
शब्दः । स्वाङ्गइति किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥
निष्प्रवाणिश्च ॥ १६० ॥
निष्प्रवाणिरिति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते । प्रोयते ऽस्या-
मिति प्रवाणी । प्रवयन्ति तयेति वा प्रवाणी । करणसाधनो ऽयं ल्युट् । तन्तु-
वायशलाका भण्यते । निर्गता प्रवाणी अस्य, निष्प्रवाणिः पटः । निष्प्रवाणिः
कम्बलः । अपनीतशलाकः । समाप्तवानः प्रत्यग्रोनवक उच्यते ॥
इति श्रीवामनविरचितायां काशिकायां वृत्तौ
पञ्चमाध्यायस्य चतुर्थश्चरणः ॥
समाप्तः पञ्चमो ऽध्यायः ॥