सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 484, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 484

॥ काशिका ५ । ४ ॥ ४८३
संहतपुच्छि। उभाबाहु उभयाबाहूरिति निपातनाद्विचप्रत्ययलोपः। प्रत्ययल-
क्षणेनाव्ययीभावसंज्ञा ॥
प्रसंभ्यां जानुनोर्जुः ॥ १२९ ॥
प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य जुरादेशो भवति समासान्तो
बहुव्रीहौ। प्रकृष्टे जानुनी यस्य प्रज्ञुः। संज्ञुः ॥
ऊर्ध्वाद्विभाषा ॥ १३० ॥
ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा जुरित्ययमादेशो भवति ।
ऊर्ध्वे जानुनी यस्य, ऊर्ध्वजानुः। ऊर्ध्वज्ञुः ॥
ऊधसो ऽनङ् ॥ १३१ ॥
ऊधःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। कुण्डमिव
ऊधो ऽस्याः, सा कुण्डोध्नी। घटोध्नी ॥ ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम् ॥
इह मा भूत्। महोधाः पर्जन्यः। घटोधो धैनुकम् ॥
धनुषश्च ॥ १३२ ॥
धनुःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति । शार्ङ्गं धनुरस्य, शार्ङ्ग-
धन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा ॥
वा संज्ञायाम् ॥ १३३ ॥
धनुःशब्दान्ताद्बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण
नित्यः प्राप्तो विकल्प्यते। शतधनुः। शतधन्वा। दृढधनुः। दृढधन्वा ॥
जायाया निङ् ॥ १३४ ॥
जायाशब्दान्तस्य बहुव्रीहेर्निङादेशो भवति । युवतिर्जाया यस्य, युव-
जानिः। वृद्धजानिः ॥
गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ १३५ ॥
उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समा-
सान्तो बहुव्रीहौ समासे । तकार उच्चारणार्थः। उद्गतो गन्धो ऽस्य, उद्गन्धिः।
पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम्। तीव्रगन्धो वातः ॥
गन्धस्येत्वे तदेकान्तग्रहणम् ॥ * ॥ तेन शोभनो गन्धो ऽस्य सुगन्ध आपणः ॥
अल्पाख्यायाम् ॥ १३६ ॥
अल्पाख्यायां यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ
समासे । सूपे ऽल्पो ऽस्मिन्सूपगन्धि भोजनम्। अल्पमस्मिन्भोजने घृतम्, घृत-
गन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः ॥