काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 472, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ४ ॥ ४०१
समासान्ताः ॥ ६८ ॥
अधिकारोयमापादपरिसमाप्ते, र्य प्रत्यया विहितास्ते समासस्यान्ताव-
यवा एकदेशा भवन्ति, तद्ग्रहणेन गृह्यन्तइति वेदितव्यम् । प्रयोजनमव्ययीभा-
वद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः । उपराज, मधिराजम् । नाव्ययीभावादित्येष
विधिर्भवति । अनश्चेति टच् । द्विपुरी, त्रिपुरीति । द्विगोरिति ङीब्भवति ।
कटक्वलयिनी । शङ्खनूपुरिणी * । द्वन्द्वोपता पगच्छ्रोदितीनिद्भवति । विधुरः ।
प्रधुरः । तत्पुरुषे तुल्येत्येष स्वरो भवति । उच्चैर्धुरः । नीचैर्धुरः । बहुव्रीहौ
प्रकृत्या पूर्वपदमित्येतद्भवति ॥
न पूजनात् ॥ ६९ ॥
यान् शब्दानुपादाय समासान्ता विधीयन्ते राजाहः सखिभ्यष्टजित्येव-
मादीन् यदा ते पूजनात् पूजनवचनात्परे भवन्ति तदा समासान्तो न भवति ।
सुराजा । अतिराजा । सुगौः । अतिगौः ॥ पूजायां स्वतिग्रहणं कर्तव्यम् ॥ * ॥
इह मा भूत् । परमराजः । परमगवइति ॥ प्राग्बहुव्रीहिग्रहणं च कर्तव्यम् ॥ * ॥
बहुव्रीहौ सक्थ्यक्ष्णोरित्येवमादौ प्रतिषेधो न भवति । सुसक्थः । अतिसक्थः ।
स्वक्षः । अत्यक्षः ॥
किमः क्षेपे ॥ ७० ॥
क्षेपे यः किंशब्दस्ततः परस्य समासान्तो न भवति । किंराजा यो न
रक्षति । किंसखा यो ऽभिद्रुह्यति । किंगौर्यो न वहति । किं क्षेपइति समासः † ।
क्षेपइति किम् । कस्य राजा, किंराजः । किंसखः । किंगवः ॥
नञस्तत्पुरुषात् ॥ ७१ ॥
नञः परे वक्ष्यमाणा ये राजादयस्तदन्तात्तत्पुरुषात्समासान्तो न भवति ।
अराजा । असखा । अगौः । तत्पुरुषादिति । किम् । अनृचो माणवकः । अधुरं
शकटम् ॥
पथो विभाषा ॥ ७२ ॥
नञस्तत्पुरुषादिति वर्तते । नञः परो यः पथिन्शब्दस्तदन्तात्तत्पुरुषा-
त्समासान्तो विभाषा न भवति । पूर्वेण नित्यः प्रतिषेधः प्राप्तो विकल्प्यते ।
अपथम् । अपन्थाः ॥
बहुव्रीहौ संख्येये डजबहुगणात् ॥ ७३ ॥
संख्येये यो बहुव्रीहिर्वर्तते तस्माद्बहुगणान्ताड्डच् प्रत्ययो भवति ।
- कोशनिवसिनी । शकटवल्यिनी । पा० २ ।
† किं क्षेपइति समास इत्याधिकमत्र, परं त्यज्यपाठः पदमञ्जर्यां दर्शनात् ।