काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 469, कुल 828 में से
संदर्भ में पढ़ें४६८ ॥ काशिका ॥ ५ ॥ ४ ॥
अभिविधिरभिव्याप्तिः । अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो
भवति संपदा योगे, चकारात्कृभ्वस्तिभिश्च । विभाषाग्रहणानुवृत्तेश्चिरप्य-
नुज्ञायते । स च कृभ्वस्तियोगएव भवति न संपदा । अग्निसात्संपद्यते । अग्नि-
साद्भवति । उदकसात्संपद्यते । उदकसाद्भवति लवणम् । अग्नीभवति । उद-
कीभवति । अथाभिविधेः कार्त्स्न्यस्य च को विशेषः । यत्रैकदेशेनापि सर्वो
प्रकृतिर्विकारमापद्यते सोभिविधिः । यथा ऽस्यां सेनायामुत्पातेन सर्वं शस्त्र-
मग्निसात्संपद्यते । वर्षासु सर्वं लवणमुदकसात्संपद्यतइति । कार्त्स्न्यं तु सर्वो-
त्मना द्रव्यस्य विकाररूपापत्तौ भवति ॥
तदधीनवचने ॥ ५४ ॥
अभूततद्भावइति निवृत्तम् अर्थान्तरोपादानात् । कृभ्वस्तियोगे संपदा
चेति वर्तते । तदधीनं तदायत्तं तत्स्वामिकमित्यर्थः । स्वामिसामान्यमीशितव्य-
सामान्यं च तदधीनशब्देन निर्दिश्यते । स्वामिविशेषवाचिनः प्रातिपदिकादधी-
तव्ये ऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः संपदा च योगे । राजाधीनं
करोति, राजसात्करोति । राजसाद्भवति । राजसात्स्यात् । राजसात्संपद्यते ।
ब्राह्मणसात्करोति । ब्राह्मणसाद्भवति । ब्राह्मणसात्स्यात् । ब्राह्मणसात्संपद्यते ॥
देये त्रा च ॥ ५५ ॥
तदधीनवचनइत्यनुवर्त्तते । तस्य विशेषणं देयग्रहणम् । दातव्यं देयं,
तदधीने देये त्रा प्रत्ययो भवति चकारात्सातिश्च कृभ्वस्तिभिः संपदा च योगे ।
ब्राह्मणेभ्यो देयमिति यद्विज्ञातं तद्यदा तेषां समर्पणेन तदधीनं क्रियते तदा
त्रा प्रत्ययः । ब्राह्मणाधीनं देयं करोति, ब्राह्मणसात्करोति । ब्राह्मणत्रा
करोति । ब्रह्मणत्रा भवति । ब्राह्मणत्रा स्यात् । ब्राह्मणत्रा संपद्यते । देय-
इति किम् । राजसाद्भवति राष्ट्रम् ॥
देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५६ ॥
सातिर्निवृत्तः त्राप्रत्ययो ऽनुवर्त्तते । देवादिभ्यः प्रातिपदिकेभ्यो द्विती-
यासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम् । कृभ्वस्तिभिरिति नात्र संबध्यते ।
सामान्येन विधानम् । देवान् गच्छति, देवत्रा गच्छति । देवेषु वसति, देवत्रा
वसति । मनुष्यान् गच्छति, मनुष्यत्रा गच्छति । मनुष्येषु वसति, मनुष्यत्रा
वसति । एवमन्येष्वप्युदाहार्यः । पुरुषान्गच्छति, पुरुषत्रा गच्छति । पुरुषेषु वसति,
पुरुषत्रा वसति । पुरुन्गच्छति, पुरुत्रा गच्छति । पुरुषु वसति, पुरुत्रा वसति ।
मर्त्यान्वसति, मर्त्यत्रा वसति । मर्त्येषु वसति, मर्त्यत्रा वसति । बहुलवचना-
दन्यत्रापि भवति । बहुत्रा जीवतो मन इति ॥