काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 461, कुल 828 में से
संदर्भ में पढ़ें७६० ॥ काशिका ॥ ५ ॥ ४ ॥
स्वतः प्रकर्षो नास्ति तथापि गुणक्रियास्थः प्रकर्षो यदा द्रव्येऽपचर्यते तदा ऽयं
प्रतिषेधः। क्रियामुख्ययोरेवायं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वेद्यु-
तराम्। पूर्वेद्युतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्त-
माम्। अद्रव्यप्रकर्षेऽति किम्। उच्चैस्तरः। उच्चैस्तमः॥
अमुचच्छन्दसि ॥ १२ ॥
किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चका-
रादामु च। प्रतरं नयामः। प्रतरां वस्यः। स्वरादिषु अम् आम् इति पठ्यते।
तस्मात्तदन्तस्याव्ययत्वम् ॥
अनुगादिनष्ठक् ॥ १३ ॥
अनुगदतीत्यनुगादी। अनुगादिन्शब्दात्स्वार्थे ठक् प्रत्ययो भवति।
आनुगादिकः॥
शचः स्त्रियामञ् ॥ १४ ॥
कर्मव्यतिहारे शच् स्त्रियामिति यद्विहितः, तदन्तात्स्वार्थे ऽञ् प्रत्ययो
भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्तते। स्त्रीग्रहणं किमर्थं
यावता शच् स्त्रियामेव विहितः। ततः स्वार्थिकस्तत्रैव भविष्यति। एवं तर्ह्य-
तज् ज्ञापयति स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ऽपीति।
तेन गुडकल्पा द्राक्षा। तैलकल्पा प्रसन्ना। देव एव देवतेत्येवमाद्युपपन्नं
भवति ॥
अभिनुशः ॥ १५ ॥
अभिविधौ भावइनुण् विहितस्तदन्तात्स्वार्थे ऽञ् प्रत्ययो भवति। सां-
राविणं वर्त्तते। सांकूटिनम् ॥
विसारिणो मत्स्ये ॥ १६ ॥
विसरतीति विसारी। विसारिन्शब्दात्स्वार्थे ऽञ् प्रत्ययो भवति मत्स्ये
ऽभिधेये। वैसारिणो मत्स्यः। मत्स्यइति किम्। विसारी देवदत्तः॥
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ १७ ॥
संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो
भवति। पौनःपुन्यमभ्यावृत्तिः। एककर्तृकाणां तुल्यजातीयानां क्रियाणां जन्म-
संख्यानं क्रियाभ्यावृत्तिगणनं तत्र प्रत्ययः। पञ्च वारान्भुङ्क्ते पञ्चकृत्वः। सप्त-
कृत्वः। संख्याया इति किम्। भूरीन्वारान्भुङ्क्ते। क्रियाग्रहणं किमर्थम्। याव-
ताभ्यावृत्तिः क्रियाया एव संभवति न द्रव्यगुणयोः। उत्तरार्थं क्रियाग्रहणम्।
एकस्य सकृच्चेत्यत्र क्रियैव गण्यते नाभ्यावृत्तिः, असंभवात्। अभ्यावृत्तिग्रहणं