सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 458, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 458

॥ काशिका ॥ ५ ॥ ३ ॥ ४५७
रक्षस् । बाह्लीक । वयस् । महत् । दशार्ह । पिशाच । विशाल । वाशति ।
जाँवोषण । सत्वत् । वसु । पर्श्वादिः ॥ यौधेय । कौशेय । क्रोष्टेय । शौक्रेय ।
बौधेय । धार्त्तेय । वार्त्तेय । जाबालेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥
अभिजिद्विद्भृच्छालावच्छिखावच्छमीवद्दूर्णावच्छ्रु-
मद्भ्यो यञ् ॥ ११८ ॥
आयुधजीविसंघादिति निवृत्तम् । अभिजिदादिभ्यो ऽणन्तेभ्यः प्राति-
पदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति । अभिजितो ऽपत्यमित्यण् । तदन्ता-
द्यञ् । आभिजित्यः । आभिजित्यौ । आभिजिताः । वैद्भृत्यः । वैद्भृत्यौ ।
वैद्भृताः । शालावत्यः । शालावत्यौ । शालावताः । शैखावत्यः । शामी-
वत्यः । दौर्णावत्यः । श्रौमत्यः ॥ गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते ॥ अभि-
जितो मुहूर्तः । आभिजितः । स्थालीपाक इत्यत्र न भवति ॥
ञ्यादयस्तद्राजाः ॥ ११९ ॥
पूगाञ्ञ्यो ग्रामणीपूर्वादित्यतः प्रभृति ये प्रत्ययाः ते तद्राजसंज्ञाभवन्ति ।
तथा चैवोदाहृतम् । तद्राजप्रदेशाः तद्राजस्य बहुष्वित्येवमादयः ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
पञ्चमस्याध्यायस्य तृतीयः पादः ॥
॥ अथ पञ्चमस्याध्यायस्य चतुर्थः पादः ॥
पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ॥ १ ॥
पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो
भवति । तत्सन्नियोगेन चान्तस्य लोपो भवति । यस्येति लोपेनैव सिद्धेपुनर्वि-
धानमनेमित्तिकार्थम् । यस्येति लोपः परनिमित्तकः । तस्य स्थानिवद्भावात्पादः
पद्दिति पद्भावो न स्यात् । अस्य स्वनिमित्तिकत्वाच्च स्थानिवत्त्वम् । द्वौद्वौ पादौ
ददाति, द्विपदिकां ददाति । द्वे द्वे शते ददाति, द्विशतिकां ददाति । तद्धि-
तार्थेति समासः । ततः प्रत्ययः । स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते ।
पादशतस्येति किम् । द्वौद्वौ माषौ ददाति । संख्यादेरिति किम् । पादंपादं
ददाति । वीप्सायामिति किम् । द्वौपादौ ददाति । द्वे शते ददाति । पाद-
शतग्रहणमनर्थकमन्यत्रापि दर्शनात् । द्विमौदकिकां ददाति, त्रिमौदकिकां
ददाति ॥
दण्डव्यवसर्गयोश्च ॥ २ ॥