सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 434, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 434

॥ काशिका ॥ ५ ॥ २ ॥ ४३३

च्वालुरन्यतरस्याम् ॥ * ॥ हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतो-
ष्णतृप्रेभ्यस्तच्च सहत इत्यालुज्वक्तव्यः ॥ * ॥ शीतं न सहते शीतालुः । उष्णालुः ।
तृप्रालुः ॥ तच्च सहतइति हिमाच्चेलुः ॥ * ॥ हिमं न सहते हिमेलुः ॥ बला-
च्चोलच् ॥ * ॥ बलं न सहते बलूलः ॥ वातात्समूहे च ॥ * ॥ वातं न सह-
तइति च ॥ वातानां समूहः, वातं न सहतइति वा वातूलः ॥ तप् पर्वमरुद्भ्यां
वक्तव्यः ॥ * पर्वतः । मरुत्तः ॥ अर्थासद्भावे इनिर्वक्तव्यः ॥ * ॥ अर्थी ।
तदभावइत्येव । अर्थवान् । तदेतद्बहुलग्रहणेन लभ्यते ॥
ऊर्णाया युस् ॥ १२३ ॥
ऊर्णाशब्दाद्युस् प्रत्ययो भवति मत्वर्थे । सकारः पदसंज्ञार्थः । ऊर्णास्य
विद्यते ऊर्णायुः । के चिच्छन्दोग्रहणमनुवर्त्तयन्ति ॥
वाचो ग्मिनिः ॥ १२४ ॥
वाक्शब्दात् ग्मिनिः प्रत्ययो भवति मत्वर्थे । वाग्मी । वाग्मिनौ ।
वाग्मिनः ॥
आलजाटचौ बहुभाषिणि ॥ १२५ ॥
वाक्शब्दात्प्रथमसमर्थादालच् चाटच् इत्येतौ प्रत्ययौ भवतो मत्वर्थे
बहुभाषिण्यभिधेये । ग्मिनेरपवादः । वाचालः । वाचाटः ॥ कुत्सितइति
वक्तव्यम् ॥ * ॥ यो हि सम्यग् बहु भाषते स वाग्मीत्येव भवति ॥
स्वामिन्नैश्वर्ये ॥ १२६ ॥
स्वामिन्निति निपात्यते ऐश्वर्ये गम्यमाने । स्वशब्दादैश्वर्यवाचिनो मत्वर्थे
आमिन्प्रत्ययो निपात्यते । स्वमस्यास्तीति, ऐश्वर्यमस्यास्तीति, स्वामी ।
स्वामिनः । ऐश्वर्यइति किम् । स्ववान् ॥
अर्शआदिभ्यो ऽच् ॥ १२७ ॥
अर्शस् इत्येवमादिभ्यः प्रातिपदिकेभ्यो ऽच्प्रत्ययो भवति मत्वर्थे ।
अर्शांसि चास्य विद्यन्ते अर्शसः । उरसः । आकृतिगणश्चायम् । यत्राभिरूपेण
शब्देन तद्वतो ऽभिधानं तत्सर्वमिह द्रष्टव्यम् । अर्शस् । उरस् । तुन्द । चतुर ।
पलित । जटा । घटा । अभ्र । कर्दम । आम्र । लवण ॥ स्वाङ्गाद्धीनात् ॥
वर्षास् ॥ अर्शआदिः ॥
द्वन्द्वोपतापगर्हात्प्राणिस्थादिनिः ॥ १२८ ॥
द्वन्द्वः समासः । उपतापो रोगः । गर्हा निन्दा, तद्विषेयेभ्यः शब्देभ्यः
प्राणिस्थार्थवाचिभ्य इनिः प्रत्ययो भवति मत्वर्थे । द्वन्द्वात्तावत् । कटकवलयिनी ।
शङ्खनुपुरिणी । उपतापात् । कुष्ठी । किलासी । गर्हात् । ककुदावर्त्ती । काक-
२८