काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 43, कुल 828 में से
संदर्भ में पढ़ें३६ ॥ काशिका ॥ १ ॥ २ ॥
उपसर्जनस्येति किम् । राजकुमारी । स्वरितत्वं किम् । अतितन्त्रीः । अति-
लक्ष्मीः । अतिश्रीः । ईयसो बहुव्रीहेः प्रतिषेधो वक्तव्यः ॥ * ॥ बहुश्रेयसी ।
विद्यमानश्रेयसी ॥
लुक्तद्धितलुकि ॥ ४९ ॥
स्त्रीग्रहणमनुवर्त्तते उपसर्जनस्येति च । पूर्वेण ह्रस्वत्वे प्राप्ते लुग्विधीयते ।
तद्धितलुकि सति स्त्रीप्रत्ययस्य उपसर्जनस्य लुग्भवति । पञ्चेन्द्रायौ देवता
अस्य पञ्चेन्द्रः । दशेन्द्रः । पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलिः । आमलक्याः
फलमामलकम् । बकुलम् । बदरम् । तद्धितग्रहणं किम् । गार्ग्याः कुलं गार्गीकु-
लम् । लुकीति किम् । गार्गीत्वम् । उपसर्जनस्येत्येव । अवन्ती । कुन्ती । कुरुः ॥
इद्गोण्याः ॥ ५० ॥
पूर्वेण लुकि प्राप्ते इकारो विधीयते । गोण्यास्तद्धितलुकि सति इकारादेशो
भवति । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । दशगोणिः । इदिति योग-
विभागः । पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः । दशसूचिः । स च एवं विषय एव ॥
लुपि युक्तवद्व्यक्तिवचने ॥ ५१ ॥
लुपीति लुप्तसंज्ञया लुप्तस्य प्रत्ययस्यार्थे उच्यते । तत्र लुपि युक्तवद् व्य-
क्तिवचने भवतः । युक्तवदिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते । स हि
प्रत्ययार्थमात्मना युनक्ति तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते । अथ वा
युक्तः प्रकृत्यर्थः प्रत्ययार्थेन संबद्धस्तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः । सप्त-
म्यर्थे वतिः । व्यक्तिवचने इति च लिङ्गसंख्ययोः पूर्वाचार्यनिर्देशस्तदीयमेवेदं
सूत्रम् । तथा चास्य प्रत्याख्यानं भविष्यति । तदशिष्यं संज्ञाप्रमाणत्वादिति ।
व्यक्तिः स्त्रीपुंनपुंसकानि,वचनमेकत्वद्वित्वद्वित्वबहुत्वानि । पञ्चालाः क्षत्रियाः ।
पुंल्लिङ्गाः बहुवचनविषयाः । तेषां निवासो जनपदः यथा तेषु क्षत्रियेषु व्यक्तिवचने
तद्वज्जनपदे भवतः । पञ्चालाः । कुरवः । मगधाः । मत्स्याः । अङ्गाः । वङ्गाः ।
सुह्माः । पुण्ड्राः । लुपीति किम् । लुकि मा भूत् । लवणः सूपः । लवणा यवागूः ।
लवणं शाकम् । व्यक्तिवचने इति किम् । शिरीषाणामदूरभवो ग्रामः शिरीषास्तस्य
वनं शिरीषवनम् । विभाषौषधिवनस्पतिभ्य इति णत्वं न भवति ॥ हरीतक्या-
दिषु व्यक्तिः ॥ * ॥ हरीतक्याः फलानि हरीतक्यः फलानि ॥ खलतिकादिषु
वचनम् ॥ * ॥ खलतिकस्य पर्वतस्यादूरभवानि वनानि खलतिकं वनानि ॥
विशेषणानां चाजातेः ॥ ५२ ॥
लुपीति वर्त्तते । लुबर्थस्य यानि विशेषणानि तेषामपि व्यक्तिवचने भवतो
जातिं वर्जयित्वा । पञ्चालाः रमणीयाः । बहुजाः बहुक्षीरघृताः बहुमाल्यफलाः ।