सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 42, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 42

॥ काशिका ॥ १ ॥ २ ॥ ३५
शाम्ब्या निष्कौशाम्बम् । निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना । निष्क्रा-
न्ताय कौशाम्ब्या निष्कौशाम्बये । निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः । नि-
ष्क्रान्तस्य कौशाम्ब्याः निष्कौशाम्बेः । निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ । एवं
निर्वाराणसिः । एकविभक्तीति किम् । राजकुमारी । अपूर्वनिपात इति किम् ।
नहि भवति कौशाम्बीनिरिति ॥
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ ४५ ॥
अभिधेयवचनो ऽर्थशब्दः । अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातु-
प्रत्ययौ वर्जयित्वा । डित्यः । कपित्थः । कुण्डम् । पीठम् । अर्थवदिति किम् ।
वनं धनमिति नान्तस्यावधेर्मा भूत् । न लोपो हि स्यात् । अधातुरिति किम् ।
हन्तेर्लङ् । अहन् । नलोपः स्यात् । अप्रत्यय इति किम् । काण्डे । कुड्ये । ह्रस्वो
नपुंसके प्रातिपदिकस्येति ह्रस्वः स्यात् । *अनर्थकस्यापि निपातस्य प्रातिपदि-
कसंज्ञेष्यते । अध्यागच्छति । प्रलम्बते । प्रातिपदिकप्रदेशाः ह्रस्वो नपुंसके प्राति-
पदिकस्येत्येवमादयः ॥
कृत्तद्धितसमासाश्च ॥ ४६ ॥
कृतस्तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति । अप्रत्यय इति पूर्वेण
पर्युदासात्कृदन्तस्य तद्धितान्तस्य चानेन प्रातिपदिकसंज्ञा विधीयते । अर्थव-
त्समुदायानां समासग्रहणं नियमार्थम् । कृत। कारकः । हारकः । कर्ता । हर्ता ।
तद्धितः । औपगवः । कापटवः । समासः । राजपुरुषः । ब्राह्मणकम्बलः । समा-
सग्रहणस्य नियमार्थत्वाद्वक्यस्यार्थवतः संज्ञा न भवति ॥
ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ ४७ ॥
नपुंसकलिङ्गे ऽर्थे यत्प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशोऽलो-
न्यस्याचः । अतिरि कुलम् । अतिलु कुलम् । नपुंसकेति किम् । ग्रामणीः ।
सेनानीः । प्रातिपदिकस्येति किम् । काण्डे तिष्ठतः । कुड्ये तिष्ठतः । प्रातिप-
दिकग्रहणसामर्थ्यादेकादेशः पूर्वस्यान्तवन्न भवति ॥
गोस्त्रियोरुपसर्जनस्य ॥ ४८ ॥
प्रातिपदिकस्येति वर्तते । गोरिति स्वरूपग्रहणं, स्त्रीति प्रत्ययग्रहणं स्वरि-
तत्वात् । उपसर्जनग्रहणं तयोर्विशेषणं, गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्योपस-
र्जनस्येति । ताभ्यां प्रातिपदिकस्य तदन्तविधिः । उपसर्जनगोशब्दान्तस्य
उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति । चित्रगुः । शब-
लगुः । स्त्रियाः । निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः ।

  • अनर्थकस्येत्यारभ्य प्रलम्बते इत्यन्तः पाठो बहुषु पुस्तकेषु न दृश्यते ।