काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 420, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ २ ॥ ४१९
नान्तादसंख्यादेः परस्य डटश्छन्दसि विषये थडागमो भवति, चेका-
रात्पक्षे मडपि भवति । पर्णमयानि पञ्चथानि भवन्ति । पञ्चथः । सप्तथः ।
मट् । पञ्चममिन्द्रियमस्यापाक्रामन् ॥
षट्कतिकतिपयचतुरां थुक् ॥ ५१ ॥
डडित्यनुवर्त्तते तत्सप्तम्या विपरिणम्यते । षट् कति कतिपय चतुर्
इत्येतेषां डटि परतस्थुगागमो भवति । कतिपयशब्दो न संख्या । तस्मादस्मा-
देव ज्ञापकाद् डट् प्रत्ययो विज्ञायते । षण्णां पूरणः षष्ठः । कतिथः । कति-
पयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च ॥ * ॥ चतुर्णां पूरणः, ।
तुरीयः । तुर्यः ॥
बहुपूगगणसंघस्य तिथुक् ॥ ५२ ॥
डडित्येव । बहु पूग गण संघ इत्येतेषां डटि परतस्तिथुगागमो भवति ।
पूगसंघशब्दयोरसंख्यावाचित्वादिदमेव ज्ञापकं डटो भावस्य । बहूनां पूरणो,
बहुतियः । पूगतिथः । गणतिथः । संघतिथः ॥
वतोरियुक् ॥ ५३ ॥
डडित्येव । वतोर्डटि परत इथुगागमो भवति । वत्वन्तस्य संख्यात्वा-
त्पूर्वेण डड्विहितस्तस्मिन्नयमागमो विधीयते । यावतां पूरणो, यावतिथः । ता-
वतिथः । एतावतिथः ॥
द्वेस्तीयः ॥ ५४ ॥
द्विशब्दात्तीयः प्रत्ययो भवति तस्य पूरणइत्यस्मिन्विषये । डटोप-
वादः । द्वयोः पूरणो, द्वितीयः ॥
त्रेः संप्रसारणं च ॥ ५५ ॥
त्रिशब्दात्तीयः प्रत्ययो भवति तस्य पूरणइत्येतद्विषये । डटोपवादः ।
तत्सन्नियोगेन त्रेः संप्रसारणं च भवति । त्रयाणांपूरण स्तृतीयः । हल इति
संप्रसारणस्य दीर्घत्वं न भवति । अण इति तत्रानुवर्त्तते डलोप इत्यतः, पूर्वेण
च शकारेणायङ्ग्रहणम् ॥
विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ ५६ ॥
विंशत्यादिभ्यः परस्य डटस्तमडागमो भवत्यन्यतरस्याम् । पूरणाधिका-
राद् डट् प्रत्यय आगमो विज्ञायते । विंशतेः पूरणः, विंशतितमः । विंशः ।
एकविंशतितमः । एकविंशः । त्रिविंशतितमः । त्रिविंशः । त्रिंशत्तमः । त्रिंशः ।
एकत्रिंशत्तमः । एकत्रिंशः । विंशत्यादयो लौकिकाः संख्याशब्दा गृह्यन्ते न
पङ्क्त्यादिसूत्रसंनिविष्टाः, तद्ग्रहणे ह्येकविंशतिप्रभृतयो न स्यात् । बह्वशक्ता