काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 417, कुल 828 में से
संदर्भ में पढ़ेंद्विपुरुषमुदकम् । त्रिपुरुषमुदकम् । द्विहस्ति । त्रिहस्ति । द्विपुरुषी । त्रिपु-
रुषी । द्विहस्तिनी । त्रिहस्तिनी ॥
यत्तदेतेभ्यः परिमाणे वतुप् ॥ ३९ ॥
तदस्येत्येव । यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्योस्येति
षष्ठ्यर्थे वतुप् प्रत्ययो भवति । यत्परिमाणमस्य, यावान् । तावान् । एतावान् ।
प्रमाणग्रहणे ऽनुवर्त्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात् ॥
डावतामर्थवैशेष्यान्निर्देशः पृथगुच्यते ।
मात्राद्यप्रतिघाताय भावः सिद्धश्च डाषतः ॥
वतुप्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्यउपसंख्यानम् ॥ * ॥ न त्वा
वाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । त्वावतः पुरुवसो यज्ञं
विप्रस्य मावतः । त्वत्सदृशस्य मत्सदृशस्येत्यर्थः ॥
किमिदंभ्यां वो घः ॥ ४० ॥
किमिदंभ्यामुत्तरस्य वतुपो वकारस्य घकारादेशो भवति । कियान् ।
इयान् । एतदेव चादेशविधानं ज्ञापकं किमिदंभ्यां वतुप्प्रत्ययो भवतीति ।
अथ वा योगविभागेन वा वतुपं विधाय पश्चाद्वो घो विधीयते ॥
किमः संख्यापरिमाणे डति च ॥ ४१ ॥
संख्यायाः परिमाणं, संख्यापरिच्छेद इत्यर्थः । संख्यापरिमाणे वर्त्तमानात्
किमः प्रथमासमर्थादस्येति षष्ठ्यर्थे डतिः प्रत्ययो भवति । चकाराद्वतुप् । तस्य
च वकारस्य घादेशो भवति । एकाग्रानन्तत्वात्परिच्छेदोपाधिकायां संख्यायां
वर्त्तमानात्किमः प्रत्ययो विज्ञायते । का संख्या परिमाणमेषां ब्राह्मणानां,
कति ब्राह्मणाः । कियन्तो ब्राह्मणाः । अथ वा संख्यैव परिमाणात्मिका परि-
च्छेदस्वभावा गृह्यते । का संख्या परिमाणं येषामिति । ननु च संख्या परि-
माणात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते । यत्रापरि-
च्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति । क्षेपे हि परिच्छेदो नास्ति । केयमेषां
संख्या दशानामिति ॥
संख्याया अवयवे तयप् ॥ ४२ ॥
तदस्येत्येव । संख्याया अवयवे वर्त्तमानाया यस्येति षष्ठ्यर्थे तयप् प्रत्ययो
भवति । अवयवा अवयविनः सम्बन्धिन इति सामर्थ्यादवयवी प्रत्ययार्थो विज्ञा-
यते । पञ्च अवयवा अस्य, पञ्चतयम् । दशतयम् । चतुष्टयम् । चतुष्टयी ॥
द्वित्रिभ्यां तयस्यायज्वा ॥ ४३ ॥