काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 414, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ २ ॥ ४१३
तिविशेषकम्। असहाये पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां स्वार्थे नानाञौ
प्रत्ययौ भवतः। विना। नाना॥
वेः शालच्छङ्कटचौ ॥ २८ ॥
विशब्दाच् शालच् शङ्कटज् इत्येतौ भवतः। साधनक्रियावचनादुपस-
र्गात्स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद्गौरपि
विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद्व्युत्पा-
द्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥
संप्रोदश्च कटच् ॥ २९ ॥
सम् प्र उद् इत्येतेभ्यः कटच् प्रत्ययो भवति। चकाराद्वेश्च। संक-
टम्। प्रकटम्। उत्कटम्। विकटम्॥ कटच्प्रकरणे ऽलाबूतिलोमाभङ्गाभ्यो
रजस्युपसंख्यानम् ॥ * ॥ अलाबूनां रजो ऽलाबूकटम्। तिलकटम्। उमाक-
टम्। भङ्गाकटस्॥ गोष्ठादयः स्थानादिषु पशुनामादिभ्य उपसंख्यानम् ॥ * ॥
गवां स्थानं, गोगोष्ठम्। महिषीगोष्ठम्॥ संघाते कटच् वक्तव्यः ॥ * ॥
अवीनां संघातः, अविकटम्॥ विस्तारे पटच् वक्तव्यः ॥ * ॥ अविपटम्॥
द्वित्वे गोयुगच् ॥ * ॥ उष्ट्रगोयुगम्। अश्वगोयुगम्॥ प्रकृत्यर्थस्य षट्त्वे षड्-
गवच् ॥ * ॥ हस्तिषड्गवम्। अश्वषड्गवम्॥ विकारे स्नेहने तैलच्* ॥ * ॥ एर-
ण्डतैलम्। इङ्गुदीतैलम्। तिलतैलम्॥ भवने क्षेत्रे इत्त्वादिभ्यः शाकटशा-
किनौ ॥ * ॥ इक्षुशाकटम्। मूलकशाकटम्। इक्षुशाकिनम्। मूलकशाकिनम्॥
अवात्कुटारच् ॥ ३० ॥
अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्।
अवकटम् ॥
नते नासिकायाः संज्ञायां टीटञ् नाट-
ञ्भ्रटचः ॥ ३१ ॥
अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नते ऽभिधेये
टीटञ् नाटञ् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया
नतं, अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगान्नासिकापि, पुरुषोऽपि तयो-
च्यते। अवटीटा। अवनाटः। अवभ्रट इति ॥
नेर्बिडज्बिरीसचौ ॥ ३२ ॥
नते नासिकाया इत्यनुवर्तते, संज्ञायामिति च। निशब्दान्नासिकाया
नते ऽभिधेये बिडच् बिरीसच् इत्येतौ प्रत्ययौ भवतः। निबिडम्। निबिरी-
- 'स्नेहे तैलच्' ॥ पा० २। अयमेव च पाठः पदमञ्जरीसंमतः।