काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 399, कुल 828 में से
संदर्भ में पढ़ें३८८ ॥ काशिका ॥ ५ । १ ॥
षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ९० ॥
षष्टिकशब्दो निपात्यते, बहुवचनमन्तवम् । षष्टिरात्रशब्दात्तृतीयासम्-
र्थात्कन् प्रत्ययो निपात्यते पच्यन्त इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टि-
रात्रेण पच्यन्ते षष्टिकाः । संज्ञैषा धान्यविशेषस्य । तेन मुद्गादिष्वतिप्रसङ्गो
न भवति ॥
वत्सरान्ताच्छश्छन्दसि ॥ ९१ ॥
वत्सरान्तात्प्रातिपदिकाद्विर्वृत्तादिष्वर्थेषु छन्दसि विषये छः प्रत्ययो
भवति । ठञोऽपवादः । इद्वत्सरीयः । इदावत्सरीयः ॥
संपरिपूर्वात्ख च ॥ ९२ ॥
संपरिपूर्वाद्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये निर्वृत्तादिष्वर्थेषु खः
प्रत्ययो भवति, चकाराच्छश्च । संवत्सरीणः । परिवत्सरीणः । संवत्सरीयः ।
परिवत्सरीयः ॥
तेन परिजय्यलभ्यकार्यसुकरम् ॥ ९३ ॥
तेनेति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात्परिजय्य लभ्यकार्य
सुकर इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति । मासेन परिजय्यः, शक्यते जेतुं, मा-
सिको व्याधिः । सांवत्सरिकः । मासेन लभ्यः, मासिकः पटः । मासेन कार्ये,
मासिकं चान्द्रायणम् । मासेन सुकरो, मासिकः प्रासादः ॥
तदस्य ब्रह्मचर्यम् ॥ ९४ ॥
तदिति द्वितीया समर्थविभक्तिः । सा चात्यन्तसंयोगे । अस्येति प्रत्य-
यार्थः । ब्रह्मचर्यमिति द्वाभ्यामपि संबध्यते । कालस्य व्यापकं, प्रत्ययार्थस्य च
स्वमिति । तदिति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे
ठञ् प्रत्ययो भवति ब्रह्मचर्ये चेद्गम्यते । मासं ब्रह्मचर्यमस्य, मासिको ब्रह्म-
चारी । षाण्मासिकः । सांवत्सरिकः । अपरा वृत्तिः । तदिति प्रथमासमर्था-
दस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत्तदस्येति निर्दिष्टं ब्रह्मचर्यं चेद्भवति ।
मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । षाण्मासिकम् । सांवत्सरिकम् ।
पूर्वेत्र ब्रह्मचारी प्रत्ययार्थ, उत्तरत्र ब्रह्मचर्यमेव । उभयमपि प्रमाणमुभयथा
सूत्रप्रणयनात् ॥ महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसंख्यानम् ॥ * ॥ माहाना-
म्निकम् । गौदानिकम् । आदित्यव्रतिकम् ॥ तच्चरतीति च * ॥ * ॥ महाना-
म्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देनोच्यते । महानाम्नीश्चरति महाना-
म्निकः । आदित्यव्रतिको, गौदानिकः । भस्याढेति पुंवद्भावेन ङीपि निवृत्ते
- तच्चरतीति महानाम्न्यादिभ्य उपसंख्यानम् । वा० २ ।