सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 396, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 396

त्यस्मिन्विषये। ठञोपवादौ। यज्ञियो ब्राह्मणः। आर्त्विज्यीनो ब्राह्मणः॥ यज्ञ-
र्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम्॥ * ॥ यज्ञकर्मार्हति, यज्ञियो देशः। आर्त्वि-
ज्यकर्मार्हति, आर्त्विज्यीनं ब्राह्मणकुलम्। आर्हीयानां ठगादीनां पूर्वोऽवधिः॥
अतः परं प्राग्वतीयष्ठञेव भवति ॥
पारायणतुरायणचान्द्रायणं वर्त्तयति ॥ ७२ ॥
समर्थविभक्तिरनुवर्त्तते। अर्हतीति निवृत्तम्। पारायणादिभ्यो द्विती-
यासमर्थेभ्यो वर्त्तयतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्त्तयत्यधीते,
पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी ॥
संशयमापन्नः ॥ ७३ ॥
संशयशब्दाद्द्वितीयासमर्थादापन्न इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति।
संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः ॥
योजनं गच्छति ॥ ७४ ॥
योजनशब्दाद्द्वितीयासमर्थाद्गच्छतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति।
योजनं गच्छति, यौजनिकः॥ क्रोशशतयोजनशतयोरुपसंख्यानम्॥ * ॥ क्रोश-
शतं गच्छति, क्रौशशतिकः। योजनशतिकः॥ ततो ऽभिगमनमर्हतीति च
क्रोशशतयोजनशतयोरुपसंख्यानम् ॥ * ॥ क्रोशशतादभिगमनमर्हति, क्रौशश-
तिको भिक्षुः। यौजनशतिक आचार्यः ॥
पथः ष्कन् ॥ ७५ ॥
पथिन्शब्दाद् द्वितीयासमर्थाद्गच्छतीत्यस्मिन्नर्थे ष्कन्प्रत्ययो भवति।
नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी॥
पन्थो ण नित्यम् ॥ ७६ ॥
नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययमादेशो भवति णश्च
प्रत्ययो नित्यं गच्छतीत्यस्मिन्विषये। पन्थानं नित्यं गच्छति, पान्थो भिक्षां
याचते। नित्यमिति किम्। पथिकः ॥
उत्तरपथेनाहृतं च ॥ ७७ ॥
निर्देशादेव समर्थविभक्तिः। उत्तरपथशब्दात्तृतीयासमर्थादाहृतमित्ये-
तस्मिन्विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसमुच्चये, गच्छतीति च।
क्वापि तृतीयेव समर्थविभक्तिः। उत्तरपथेनाहृत, मौत्तरपथिकम्। उत्तरपथेन
गच्छति, औत्तरपथिकः॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसं-
ख्यानम् ॥ * ॥ वारिपथेनाहृतं, वारिपथिकम्। वारिपथेन गच्छति, वारिप-
थिकः। जाङ्गलपथेनाहृतं, जाङ्गलपथिकम्। जाङ्गलपथेन गच्छति, जाङ्गलप-