सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 392, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 392

वहद्रव्यशब्दाभ्यां द्वितीयासमर्थाभ्यां यथासंख्यं ठन् कन् इत्येतौ प्रत्ययौ
भवतो हरत्यादिष्वर्थेषु । वहं हरति वहतिवा, वहिकः । द्रव्यकः ॥
संभवत्यवहरति पचति ॥ ५२ ॥
तदिति द्वितीया समर्थविभक्तिरनुवर्तते । तदिति द्वितीयासमर्थात्संभ-
वत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । तत्राधेयस्य प्रमाणानातिरेकः संभ-
वः । उपसंहरणमवहारः । विक्लेदनं पाकः । प्रस्थं संभवति अवहरति पचति
वा, प्रास्थिकः । कौडविकः । खारीकः । ननु च पाके च संभवोऽस्ति । नास्त्यत्र
नियोगः । प्रस्थं पचति ब्राह्मणी, प्रास्थिकी ॥ तत्पचतीति द्रोणाद्वच ॥ * ॥
द्रोणं पचति, द्रौणी । द्रौणिकी ॥
आढकाचितपात्रात्खोन्यतरस्याम् ॥ ५३ ॥
आढकाचितपात्रशब्देभ्यो द्वितीयासमर्थेभ्यो ऽन्यतरस्यां संभवादिष्वर्थेषु
खः प्रत्ययो भवति । ठञोऽपवादः । पक्षे सोपि भवति । आढकं संभवत्यवहरति
पचति वा, आढकीना । आढकिकी । आचितीना । आचितिकी । पात्रीखा ।
पात्रिकी ॥
द्विगोष्ठंश्च ॥ ५४ ॥
आढकाचितपात्रादित्येव । आढकाचितपात्रान्ताद् द्विगोः संभवत्याद्वि-
ष्वर्थेषु ठन् प्रत्ययो भवति, चकारात्खः, अन्यतरस्याम् । विधानसामर्थ्यादेवा-
नयोर्लुङ् न भवति । ठञस्तु पक्षे ऽनुज्ञातस्याढ्यर्धपूर्वद्विगोरिति लुग्भवत्येव ।
नकारः स्वरार्थः । षकारो ङीषर्थः । द्व्याढकिकी । द्व्याढकीना । द्व्याढकी ।
द्व्याचितिकी । द्व्याचितीना । द्व्याचिता । अपरप्रमाणबिस्ताचितेति ङीषः प्रति-
षेधः । द्विपात्रिकी । द्विपात्रीखा । द्विपात्री ॥
कुलिजाल्लुक्खौ च ॥ ५५ ॥
द्विगोरित्येव । कुलिजशब्दान्ताद् द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ
भवतः । चकारात्ठंश्च । अन्यतरस्यां ग्रह्णानुवृत्त्या लुगपि विकल्प्यते । ठञः
पक्षे श्रवणं भवति । तेन चातूरूप्यं संपद्यते । द्वे कुलिजे संभवत्यवहरति पचति
वा, द्विकुलिजिकी । द्विकुलिजीना । द्विकुलिजा । द्वैकुलिजिकी । परिमाणा-
न्त्यास्यासंज्ञाशाणयोरित्यत्र कुलिजग्रहणमपीष्यते । तेनोत्तरपदवृद्धिपि न भवति ॥
सोस्यांशवस्त्रभृतयः ॥ ५६ ॥
स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्
प्रथ