सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 390, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 390

॥ काशिका ॥ ५ ॥ १ ॥ ३८९
न्वित्येतस्मिन्विषये । द्व्यच इति नित्ये यति प्राप्ते वचनम् । पुच्छस्य निमित्तं
संयोग उत्पातो वा, पुच्छ्यायम् । पुच्छ्यम् ॥
सर्वभूमिपृथिवीभ्यामणञौ ॥ ४१ ॥
सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं
संयोगोत्पातावित्येतस्मिन्विषये । ठञोपवादौ । सर्वभूमेर्निमित्तं संयोग उत्पातो
वा, सार्वभौमः । पार्थिवः । सर्वभूमेरनुशतिकादिपाठादुभयपदवृद्धिः ॥
तस्येश्वरः ॥ ४२ ॥
तस्येति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यामणञौ प्रत्ययौ भवत
ईश्वर इत्येतस्मिन्विषये । सर्वभूमेरीश्वरः, सार्वभौमः । पार्थिवः । षष्ठीप्रकरणे
पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये । अन्यथा संयोगोत्पाता-
विव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत ॥
तत्र विदित इति च ॥ ४३ ॥
तत्रेति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ
प्रत्ययौ भवतः विदित इत्येतस्मिन्नर्थे । विदितो ज्ञातः, प्रकाशित इत्यर्थः ।
सर्वभूमौ विदितः, सार्वभौमः । पार्थिवः ॥
लोकसर्वलोकाट्ठञ् ॥ ४४ ॥
लोकसर्वलोकशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां विदित इत्येतस्मि-
न्विषये ठञ् प्रत्ययो भवति । लोके विदितः, लौकिकः । सार्वलौकिकः ।
अनुशतिकादित्वादुभयपदवृद्धिः ॥
तस्य वापः ॥ ४५ ॥
तस्येति सप्तमीसमर्थाद्वाप इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
उप्यते ऽस्मिन्वापः । क्षेत्रमुच्यते । प्रस्थस्य वापः क्षेत्रं, प्रास्थिकम् । द्रौणिकम् ।
खारीकम् ॥
पात्रात्ष्ठन् ॥ ४६ ॥
पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वाप इत्येतस्मिन्विषये । ठञो-
पवादः । नकारः स्वरार्थः । षकारो ङीबर्थः । पात्रशब्दः परिमाणवाची ।
पात्रस्य वापः, पात्रिकं क्षेत्रम् । पात्रिकी क्षेत्रभक्तिः ॥
तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ॥ ४७ ॥
तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति
यत्तत्प्रथमासमर्थं वृद्धादि चेत्तद्दीयते । दीयते इत्येकवचनान्तं वृद्धादिभिः