काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 388, कुल 828 में से
संदर्भ में पढ़ेंद्वित्रिपूर्वादिति चकारेणानुकृष्यते, द्वित्रिपूर्वाद्बिस्तान्ताद्द्विगोः परस्या-
र्हीयप्रत्ययस्य विभाषा लुग्भवति । द्विबिस्तम् । द्विबैस्तिकम् । त्रिबिस्तम् ।
त्रिबैस्तिकम् । बहुबिस्तम् । बहुबैस्तिकम् * ॥
विंशतिकात्खः ॥ ३२ ॥
अध्यर्धपूर्वात्प्रातिपदिकाद्द्विगोश्च विंशतिकशब्दान्तादार्हीयेष्वर्थेषु खः
प्रत्ययो भवति । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् । त्रिविंशतिकीनम् ।
विधानसामर्थ्याल्लुङ् न भवति ॥
खार्या ईकन् ॥ ३३ ॥
अध्यर्धपूर्वाद् द्विगोरित्येव । अध्यर्धपूर्वात्प्रातिपदिकाद्द्विगोश्च खारी-
शब्दान्तादार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति । अध्यर्धखारीकम् । द्विखारीकम् ॥
केवलाच्चेति वक्तव्यम् ॥ * ॥ खारीकम् ॥ काकिण्याश्चोपसंख्यानम् ॥ * ॥
अध्यर्धकाकिणीकम् । द्विकाकिणीकम् । त्रिकाकिणीकम् ॥ केवलायाश्च ॥ * ॥
काकिणीकम् ॥
पणपादमाषशताद्यत् ॥ ३४ ॥
अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धपूर्वाद्द्विगोश्च पणपादमाषशतशब्दा-
न्तादार्हीयेष्वर्थेषु यत् प्रत्ययो भवति । अध्यर्धपण्यम् । द्विपण्यम् । त्रिपण्यम् ।
अध्यर्धपाद्यम् । द्विपाद्यम् । त्रिपाद्यम् । पद्भावो न भवति पद्यत्यतदर्थे इति ।
अख्यद्व्यस्य स इष्यते । इदं तु परिमाणम् । माष । अध्यर्धमाष्यम् । द्विमा-
ष्यम् । त्रिमाष्यम् । शत । अध्यर्धशत्यम् । द्विशत्यम् । त्रिशत्यम् ॥
शाणाद्वा ॥ ३५ ॥
अध्यर्धपूर्वाद्द्विगोरित्येव । शाणशब्दादध्यर्धपूर्वाद् द्विगोराहीयेष्वर्थेषु
वा यत् प्रत्ययो भवति । ठञोऽपवादः । पक्षे सोऽपि भवति । तस्य च लुक् ।
अध्यर्धशाण्यम् । अध्यर्धशाणम् । द्विशाण्यम् । द्विशाणम् । त्रिशाण्यम् ।
त्रिशाणम् ॥ शताच्चेति वक्तव्यम् ॥ * ॥ अध्यर्धशत्यम् । अध्यर्धशतम् । द्विश-
त्यम् । द्विशतम् । त्रिशत्यम् । त्रिशतम् ॥
द्वित्रिपूर्वादण् च ॥ ३६ ॥
शाणादित्येव, द्वित्रिपूर्वाच्छाणान्तात्प्रातिपदिकादार्हीयेष्वर्थेषु अण्
प्रत्ययो भवति, चकाराद्वाच्च वा । तेन त्रैविध्यं भवति । द्विशाण्यम् । द्वैशा-
णम् । द्विशाणम् । त्रिशाण्यम् । त्रैशाणम् । त्रिशाणम् । परिमाणान्तस्यासं-
ज्ञाशाणयोरिति पर्युदासादादिवृद्धिरेव भवति ॥
- शेषविभाषा उत्तरार्थ इत्यधिकं पुस्तकान्तरे ।