सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 386, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 386

॥ काशिका ॥ ५ । १ ॥ ३८५
शताच्च ठन्यतावशते ॥ २१ ॥
अर्हाद् इत्येव। शतशब्दात् ठन्यतौ प्रत्ययौ भवतः अशते ऽभिधेये।
आर्हीयेष्वर्थेषु। कनोपवादः। शतेन क्रीतं, शत्यम्। शतिकम्। अशतरिति
किम्। शतं परिमाणमस्य, शतकं निदानम्। प्रत्ययार्थोऽत्र संघः शतमेव वस्तुतः
प्रकृत्यर्थाच्च भिद्यते। इह तु न भवति। शतेन क्रीतं, शत्यं शाटकशतम्।
शतिकं शाटकशतमिति, वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते न श्रुत्या।
तथा चोक्तम्। शतप्रतिषेधे ऽन्यशतत्वे ऽप्रतिषेध इति। चकारो ऽसमासप्रत्यनु-
कर्षार्थः। द्वौ च शतं च द्विशतं द्विशतेन क्रीतं, द्विशतकम्। त्रिशतकम्। प्राग्वतेः
संख्यापूर्वपदानां तदन्तग्रहणामलुकीत्यनया दृष्ट्या समासादपि प्राप्नोति ॥
संख्याया अतिशदन्तायाः कन् ॥ २२ ॥
आर्हादित्येव। संख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवति
आर्हीयेष्वर्थेषु। ठञो ऽपवादः। पञ्चभिः क्रीतः, पञ्चकः। बहुकः। गणकः।
अतिशदन्ताया इति किम्। साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य
सङ्ख्याश्रुतेः पर्युदासो न भवति। कतिकः॥
वतोरिड् वा ॥ २३ ॥
वत्वन्तस्य संख्यात्वात् कन् सिद्ध एव तस्य त्वनेन वा इडागमो वि-
धीयते। वतोः परस्य कनो वा इडागमो भवति आर्हीयेष्वर्थेषु। तावतिकः।
तावतकः। यावतिकः। यावतकः॥
विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम् ॥ २४ ॥
विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति असंज्ञायां विषये आर्हीयेष्वर्थेषु।
विंशकः। त्रिंशकः। ति विंशतेर्डितीति तिलोपः। असंज्ञायामिति किम्।
विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन् यावता अतिशदन्ताया इति पर्युदा-
सेन भवितव्यम्। योगविभागः करिष्यते। विंशतित्रिंशद्भ्यां कन्प्रत्ययो भवति।
ततो ड्वुनसंज्ञायामिति ॥
कंसाट्टिठन् ॥ २५ ॥
कंसाट्टिठन् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञोपवादः। टकारो ङीब-
र्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी ॥ शूर्पा-
दिति वक्तव्यम् ॥ * ॥ शार्पिकः। शार्पिकी ॥ कार्षापणाट्टिठन्वक्तव्यः ॥ * ॥
कार्षापणिकः। कार्षापणिकी ॥ प्रतिशब्दश्चास्यादेशो वा वक्तव्यः ॥ * ॥ प्रतिकः।
प्रतिकी ॥
शूर्पादजन्यतरस्याम् ॥ २६ ॥
२५